________________
२६६
आवश्यक मूलसूत्रम् -२-५/५०
श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य-राष्ट्रा विज्ञाय कुर्यात् प्रमादं सचेतननः ? चारित्रधर्मे प्रमादः कर्तुं न युक्तं इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवरेन्द्रगणार्चि तस्येति किमर्थमिति ?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः मू. (५१) सिद्धे भो ! पयओ नमो जिनमए नंदी सया संजमे,
देवनागसुवण्णकिन्नरगणस्सब्भुअभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं,
धम्मो वडउ सासओ विजयऊ धम्मुत्तरं वड्डउ । वृ-'सिद्धे भो पयओ नमो जिनमये'इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं-यथाशख्तयोद्यतः प्रकर्षेण यतः, इत्थं परसाक्षिकं भू(क) त्वा पुनर्नमस्करोति-'नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क्व?-संयमे-चारित्रे, यथोक्तं- पढमं नाणं तओ दये' त्यादि, किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते?-लोक्यतेऽनेनेति लोकः-? ज्ञानमेव स यत्र प्रतिष्ठितः, तथ जगदिदं ज्ञेयतया, केचित्त मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोख्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वतः-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यादिशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदि'त्यादि, अन्ये पठन्ति-धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वत् वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-“अप्पुव्वणाणगहणे''त्ति,
मू. (५२) सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्थ०।
वृ- 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि प्रागवत्, यावद्वोसिरामि। एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेमि, आह च-'सुयनाणस्स चउत्थो त्ति, तओ नमोक्कारेण पारित्ता विसुद्धचरणदंसणसुयाइयारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुइं कड्डेति, भणियं च-'सिद्धाण थुई यत्ति, सा चेयं स्तुतिः-- मू. (५३) सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं ।
लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥ वृ-सितं ध्यातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽवि स्वतीर्थेज्ज्वलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-- 'पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः, तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-‘परम्परगतेभ्यः' परम्परया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org