________________
अध्ययनं-५- नि. १५२३]
२६७ एकेनाभिव्यक्तार्थादागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह-'लोकाग्रमुपगतेभ्यः' लोकाग्रम्-ईषत्प्राग्भाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति? भावे वा सर्वदैव कस्मान्न भवतीति?, अत्रोच्यते, पूर्वावेधवशाद् दण्डादिचक्रभ्रमणवत् समयमेवैकमवसेयेति, नमः सर्वदा-सर्वकालं ‘सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति कुर्वन्तिमू. (५४) जो देवाणवि देवो जं देवा पंजली नमसंति ।
तं देवदेवमहिअंसिरसा वंदे महावीरं ॥ वृ- 'जो देवाणवि देवो जं देवा पंजली'त्यादि, यो भगवान् महावीरः देवानामपिभवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देव-देवमहियं देवदेवाः-शक्रादयः तैः महितं-पूतिं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं कं? -'महावीरं' 'ईर गतिप्रेरणमो रित्यस्य विपूर्वस्य विशेषेण ईरयतिकर्म गमयति याति वा श्विामिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुति कृत्वा पुनः फलप्रदर्शनार्थमिदं पठतिमू. (५५) इक्कोऽवि नमुक्कारो जिनवरवसहस्स वद्धमाणस्स।
संसारसागराओ तारेइ नरं व नारिं वा । वृ. 'इक्कोऽवि नमोक्कारो जिनवरवसहस्से' त्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारी वा, इयमत्र भावना- सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात्। मू. (५६) उजिंतसेलसिहरे दिक्खा नाणं निसीहिआ जस्स ।
तं धम्मचक्कवहि अरिट्ठनेमिं नमसामि ॥ मू. (५७) चत्तारि अट्ठ दस दो य वंदिआ जिनवरा चउव्वीसं ।
परमनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ - एतास्तिस्त्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः, 'कितिकम' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरयिं कायं पडिलहित्ता आयरियस्स वंदनं करेंति'त्ति गाथार्थः ॥
आह-किंनिमित्तमिदं वन्दनकमिति ?, उच्यतेनि. (१५२४) सुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं ।
वटुंतिया थुईओ गुरुथुइगहणे कए तिन्नि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org