Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 283
________________ २८० आवश्यक मूलसूत्रम्-२-६/६२ निगदसिद्धमयं गाथासमुदायार्थः । अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे।। अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह[भा.२३९] दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ। अइच्छापच्चक्खाणं बंभणसमणा न (अ) इच्छत्ति ॥ वृ. 'दव्वनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ रायसुय' त्ति अत्र कथानकं एगस्स रन्नो धूया अन्नस्स रन्नो दिन्ना, सो य मओ, ताहे सा पिउणा आनिया, धम्म पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दानं देति, अन्नया कत्तिओ धम्ममासोत्ति मंसं न खामित्ति पञ्चक्खायं, तत्थ पारणए अनेगाणि सत्तसहस्साणि मंसत्थाए उवनीयाणि, ताहे भत्तं दिज्जति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरइ ?, ते भणंति जावज्जीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्वतिया, एवं तीसे दव्वपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथा, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदिस्तेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः । अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह[भा.२४०] अमुगं दिजउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पच्चक्खाणस्स भावंमि ॥ वृ-'अमुगं दिजउ मज्झं गाहा व्याख्या-अमुकं घृतादि दीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं २ ॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्धं 'सेसपयाण य गाहा पच्चक्खाणस्स भावंमि' शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथू प्रतिष्टालिप्सयोर्ग्रन्थे चेति धातुवचनात्, ‘भावंमि'त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति । [भा.२४१] तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुव्वं नोपुव्वसुयं इमं चेव ॥ वृ-'तं दुविहं सुतणोसुय'गाहा, ‘तद्' भावप्रत्याख्यानं द्विविधं-द्विप्रकारं 'सुत नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुव्वमेव नोपुव्व' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्व श्रुतप्रत्याख्यानं च, 'पुव्वसुय नवमपुव्वं' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्वं, 'नोपुव्वसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356