Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 286
________________ २८३ अध्ययन-६ [नि. १५५८] मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपिप सर्वत्रेवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, 'दुविहं एगविहेणं'ति द्विविधमेकविधेन, ‘एक्कविहं चेव तिविहेणं ति एकविधं चैव त्रिविधेनेति ॥ नि. (१५५९) एगविहं दुविहेणं इक्विक्कविहेण छ?ओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ वृ-'एगविहं दुविहेणं ति एकविधं द्विविधेन ‘एक्केक्कविहेण छट्ठओ होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगु णः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनाद्दत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ'त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः । इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिशद् भवन्ति, कथमित्यत आहनि. (१५६०) पणय चउक्कं च तिगं दुगं च एगं च गिण्हइ वयाइ । अहवाऽवि उत्तरगुणे अहवाऽवि न गिण्हई किंचि ॥ वृ- ‘पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, 'चउक्कं च'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'तिग'न्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं च त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, ‘एकं वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्राषिडेव, ‘गिण्हइ वयाइंति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षटकास्त्रिंशद् भवन्ति, प्रतिपपन्नोत्तरगुणेन सहैकत्रिंशत्, तथा चाह-'अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती किंचित्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः।। इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्तते तथा चाहनि. (१५६१) निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणमि एए बत्तीसं सावया भणिया । वृ-'निस्संकियनिकंखिय' गाहा, शङ्कादिस्वपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः ‘वीरवचने' महावीरंवर्द्धमानस्वामि-प्रवचने ‘एते' अनन्तरोक्ता द्वात्रिशदुपासकाः-श्रावका भणिताः-उक्ता इति गाथार्थः ॥ एते चेव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएण य ६, अथवा पाणातिपातं न करेति मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356