________________
२८३
अध्ययन-६ [नि. १५५८] मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपिप सर्वत्रेवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, 'दुविहं एगविहेणं'ति द्विविधमेकविधेन, ‘एक्कविहं चेव तिविहेणं ति एकविधं चैव त्रिविधेनेति ॥ नि. (१५५९) एगविहं दुविहेणं इक्विक्कविहेण छ?ओ होइ ।
उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ वृ-'एगविहं दुविहेणं ति एकविधं द्विविधेन ‘एक्केक्कविहेण छट्ठओ होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगु णः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनाद्दत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ'त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः । इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिशद् भवन्ति, कथमित्यत आहनि. (१५६०) पणय चउक्कं च तिगं दुगं च एगं च गिण्हइ वयाइ ।
अहवाऽवि उत्तरगुणे अहवाऽवि न गिण्हई किंचि ॥ वृ- ‘पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, 'चउक्कं च'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'तिग'न्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं च त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, ‘एकं वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्राषिडेव, ‘गिण्हइ वयाइंति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षटकास्त्रिंशद् भवन्ति, प्रतिपपन्नोत्तरगुणेन सहैकत्रिंशत्, तथा चाह-'अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती किंचित्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः।। इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्तते तथा चाहनि. (१५६१) निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य ।
वीरवयणमि एए बत्तीसं सावया भणिया । वृ-'निस्संकियनिकंखिय' गाहा, शङ्कादिस्वपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः ‘वीरवचने' महावीरंवर्द्धमानस्वामि-प्रवचने ‘एते' अनन्तरोक्ता द्वात्रिशदुपासकाः-श्रावका भणिताः-उक्ता इति गाथार्थः ॥
एते चेव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएण य ६, अथवा पाणातिपातं न करेति मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org