________________
२८२
आवश्यक मूलसूत्रम्-२-६/६२
साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च
“यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् ।
शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥" श्रावकाणां धर्मः २ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ? -'धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धि-तीर्थकरगणधरपप्ररूपितमित्यर्थः, यं चरित्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ।। तत्रनि. (१५५७) साभिग्गहा य निरभिग्गहा य आहेण सावया दुविहा ।
ते पुन विभञ्जमाणा अट्टविहा हुं ति नायव्वा । वृ- 'साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वकं देशमूलगुणोत्तरगुणेषु सर्वेष्वकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओधेनसामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विधा अपि विभज्यमाना अभिग्रहग्रहणविशेषण निरुप्यमाणा अष्टविधा भवन्ति ? ज्ञातव्या इति गाथार्थः ॥
तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाहनि. (१५५८) दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ ।
दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ वृ- 'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविधं मिति कृतकारितं 'त्रिविधेने' ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूल-प्राणातिपातं न करोत्यात्माना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपपत्यादिपपरिग्रह-सद्भावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवन्त्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मात्रोक्तं नियुक्तिकारेणेति?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि-किल यः प्रविव्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपपातादिकं चेत्यादि, नं तु सकलसावद्यव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणतिपपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तियुक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठु समाचार्यनुपाति तन्त्रोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यदिभिरेव षड्भिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं तिविहेण बितियओ होति'त्ति द्विविध" मिति स्थूलप्राणातिपपातं न करोति न कारयति 'द्विविधेने ति मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org