SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -६ [नि. १५५५ ] अधुना नाश्रुतप्रत्याख्यानप्रतिपादनायाह [भा. २४२] (प्र.) नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं सं इत्तरियं आवकहियं च ॥ मूलगुणावि यदुविहा समणाण चेव सावयाणं च । ते पुन विभजमाणा पंचविहा हुंति नायव्वा || २८१ वृ- 'नोसुयपञ्च्चक्खाणं' गाहा 'नोसुयपच्चक्खाणं 'ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चेव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः २ त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणाः २ त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सव्वं hi ति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्त्तते त उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद् वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविधं त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्ध्व वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविधं-‘इत्तरियमावकहियं च' तत्रेत्वरं साधूनां किश्चिद्भिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि यावत्कथिकं तु नियन्त्रितं यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थः ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यान-मुपदर्शयत्राह [भा. २४३] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणातिविहंतिविहेण नायव्वा ।। वृ- 'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रियादयः, तथा चोक्तम्“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिश्वासमथान्यदायुः । प्राणादशैते भगवद्भिरुक्ता, एषां वियोगीकरणं तु हिंसा ॥" तेषां वधः प्राणवधी (न) जीववधस्तस्मिन् मृषा वदनं मृषावादस्तस्मिन्, असदभिधान इत्यर्थः, ‘अदत्तं’त्ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण'त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, 'परिग्गहे चेव' थि परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां साधूनां मुलगुणाः त्रिविधत्रिविधन योगत्रयकरणत्रयेण नेतव्याः अनुसरणीयाः, इयमत्र भावना श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविधन्ति न करेति न कारवेइ ३ करंतंपि अन्न नाणुजाणेति, 'तिविहं' ति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः || इत्थं तावदुदर्शितं सर्वमूलगुण्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराह नि. (१५५६ ) सावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाई पार्वति ॥ वृ- व्याख्या- तत्राभ्युपेतसम्बक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy