Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 281
________________ २७८ आवश्यक मूलसूत्रम् -२-५/६२ इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं ॥ वृ- 'काउस्सग्गे' गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवराः-साधवः अष्टविध-अष्टप्रकारं कर्मसङ्घातं-ज्ञानावरणीयादिलक्षणमिति गाथार्थः ॥ आह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवंनि. (१५५२) अन्नं इमं सरीरं अन्नो जीवुथि एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ। वृ- 'अन्नं इमं' गाहा व्याख्या-अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिकेशकरं छिन्द्धि ममत्वं शरीरात्, किं च-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यलः कार्य इति गाथार्थः ॥ किं चैवं विभावनीयम्नि. (१५५३) जावइया किर दुक्खा संसारे जे मए समनुभूया । इत्तो दुव्विसहतरा नरएसु अनोवमा दुक्खा ॥ वृ. “जावइया' गाहा व्याख्या-यावन्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः।। नि. (१५५४) तम्हा उ निम्ममेणं मुनिना उक्लद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्यो । काउस्सग्गनिजुत्ती समत्ता। वृ- 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?उपलब्धसूत्रसारेण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ? -कायोत्सर्गः- उक्तस्वरूपः उग्र-शुभाध्यवसायप्रबलः कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ।। उक्तोऽनुगम :, नयाः पूर्ववत् ।। शिष्यहितायां कायोत्सर्गांध्ययनं समाप्तम् । कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु । अध्ययनं -५ समाप्तम मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पंचमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः, पूवाचार्य रचितं भाष्यं, हरिभद्रसूरिविरचिता टीका परिसमाप्ता । (अध्ययन-६-प्रत्याख्यानं ) वृ- व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने स्खलनविशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः Jain Education International na For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356