SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० आवश्यक मूलसूत्रम् - २-५ / ३९ अभिगृह्यत इति अभिग्रहः अभिग्रहेण निर्वृत्त आभिग्रहिकः- कायोत्सर्गस्तदव्यतिरेकात् तत्कर्त्ताऽप्याभिग्रहिको भण्यते, असावफयभिभवकायोत्सर्गकार्य पीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः किमित्यत आह- 'सजमरणं निरोहे' त्ति सद्योमरणं निरोधे उच्छ्वासस्य, ततश्च 'सुहुमुस्सासं तु जयणाए 'त्ति सूक्ष्मोच्छ्वासमेव यतनया मुञ्चति, नोल्बणं, मा भूत् सत्त्वघान इति गाथार्थः ॥ 1 अधुना 'कासिते' त्यादिसूत्रार्थ-प्रच्किटिषयेदमाह नि. (१५११) कासखुअजंभिए मा हु सत्थमणिलोऽनिलस्स तिव्वुण्हो । असमाही य निरोहे मा मसगाई अ तो हत्थो । वृ- 'कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ? -'मा हु सत्यमनिलोऽनिलस्स तिव्वुण्हो' त्ति मा शस्त्रं भविष्यति कासितादि - समुद्भवोऽनिलो वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः ? - तीव्रोष्णः, बाह्यानिलोपेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे' त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, ' मा मसगाई 'त्ति मा मसकादयश्च कासितादिसमुद्भवपवन श्लेष्माभिहता मरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥ आह- निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छ्रसितेन तुल्ययोगक्षेमत्वादिति, इदानीम् 'उद्गारितेने' त्यादिसूत्रावयवव्याचिख्यासयाऽऽह नि. (१५१२ ) वायनिसगग्गुड्डोए जयणासद्दस्स नेव य निरोहो । उड्डो वा हत्थो भमलमुच्छासु अ निवेसो ॥ वृ- वातनिसर्गः-उक्तस्वरूप उद्गारोऽपि तत्रायं विधिः यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहो' त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ।। साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै' रित्यादिसूत्रावयवव्याचिख्यासयाऽऽहवीरियसजोगयाए संचारा सुहुमबायरा देहे । नि. (१५१३) बाहिं रोमंचाई अंतो खेलाणिलाईया || वृ- वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग तयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमञ्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः । अधुना 'सूक्ष्मैर्दृष्टिसञ्चारै' रिति सूत्रावयवं व्याख्यानयति नि. (१५१४) अव लोअचलं चक्खू मनुव्व तं दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलइ ॥ - वृ- अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं ? -चक्षुःनयनं, यतश्चैवमतो मनोवद् - अन्तःकरणमिव तचक्षुर्दुष्करं स्थिरं कर्तुं न शक्यत इत्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy