________________
अध्ययनं - ५ - [ नि. १५१४]
२६१
यतो रूपैस्तदाक्षिप्यते स्वभावतो वा स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः ॥ यस्मादेवं तस्मात्
नि. (१५१५) न कुणइ निमेसजुत्तं तत्थुव ओगे न झाण झाइज्जा । एगनिसिं तु पवन्नो झायइ साहू अनिमिसच्छोऽवि ।
वृ- न करोति निमेष (रोध) यलं कायोत्सर्गकारी, किमिति ?, 'तत्थुवओगे न झाण झाएज' ति तत्र - निर्निमेषयत् तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ।।
अधुना एवमादिभिराकारैरित्यादि- सूत्रावयवव्याचिख्यासयाह
नि. (१५१६) अगनीओ छिंदिज व बोहियखोभाइ दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ||
वृ- 'अगनि 'त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह- नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद् भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत् परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्वं परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिज व 'त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाई' त्ति बोधिकाः- स्तेनकास्तेभ्यः क्षोभः संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो ( ऽनुच्चारयतो ) वा न कायौत्सर्गभङ्गो 'दीहडक्को वे 'त्ति सर्पदष्टे चात्मनि परे वा सहसा अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभग्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाह
1
नि. (१५१७) ते पुन ससूरिए चिय पासवणुच्चारकालभूमीओ ।
पेहित्ता अत्थमिए ठंतुस्सग्गं सए ठाणे ॥
वृते पुनः कायोत्सर्गकर्त्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिस्त्रस्तु कालभूमयः-कालमण्डलाख्याः, यावच्चैनमन्यं चश्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्थमिए ठंति उस्सग्गं सए ठाणे' त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः । अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते सति । नि. ( १५१८) जइ पुन निव्वाघाए आवासं तो करिंति सव्वेवि ।
सड्ढाइकहणवाघाययाइ पच्छा गुरू ठंति ॥
वृ- ‘जइ पुन निव्वाघाओ’ व्याख्या यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं - प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सङ्घादिकहणवाघाते पच्छा गुरु ठंति 'त्ति निगदसिद्धमिति गाथार्थः ।। यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org