Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 249
________________ २४६ आवश्यक मूलसूत्रम् -२-५/३७ मार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽहनि. (१४५२) सो उस्सग्गो दुविहो चिट्ठाइ अभिभवे य नायववो । भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ ॥ वृ- ‘सो उस्सग्गो दुविहो 'स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायव्वो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषयो प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, “उवसग्गऽभिउंजणे बिइओ'ति उपसर्गा-दिव्यादयस्तैरभियोजनमुप-सर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजन-सोढव्या मयोपसर्गास्तभयं न कार्यमित्येवं भूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्यनि. (१४५३)इयरहवि ता न जुञ्जइ अभिओगो किं पुणाइ उस्सग्गे ?। ननु गव्वेण परपुरं अभिरुज्झइ एवमेयंति (पि)॥ वृ- ‘इयरहवि ता न’ इतरथापि-सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुं, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्ग कर्मक्षयाय क्रियमाणे ?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्वो वर्तते, नन्वित्यसूयायां गर्वेण-अभियोजने परपुर-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः । एवं चोदकेनोक्ते सत्याहाचार्यःनि. (१४५४) मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गं तु । भयकारणे य तिविहे नाभिभवो नेव पडिसेहो ॥ वृ- 'मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशेकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्गं तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्यतिर्गग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते-'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषैध्य इति गाथार्थः ।। किन्तु नि. (१५५५) आगारेऊण परं रणिव्व जइ सो करिज उस्सग्गं । . जुजिज्ज अभिभवो तो तद्भावे अभिभवो कस्स ?॥ वृ- 'आगारेऊण परं' आगारेऊण'त्ति, आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कञ्चन ‘रणेव्व' संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तद्भावे-पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः । तत्रैतत् स्यात्-भयमपि कर्मांशो वर्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतःनि. (१४५६) अट्ठविहंपि य कम्मं अरिभूयं तेन तज्जयट्ठाए । अब्भुट्ठिया उ तवसंजमंमि कुव्वंति निग्गंथा । वृ- 'अट्ठविहंपि य कम्म' अष्टविधं-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356