Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५०
आवश्यक मूलसूत्रम् -२-५/३७
ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह
नि. (१४७२)
देसियदंसियमग्गो वच्चंतो नरवई लहइ सद्दं । रायत्ति एस वच्चइ सेसा अनुगामिणो तस्स ॥
वृ- 'देसिय' गाहा, देशयतीति देशिकः - अग्रयायी देशिकेन दर्शितो मार्गः पन्था यस्य स तथोच्यते व्रजन्–गच्छन् नरपती - राजा लभते शब्दं प्राप्नोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वच्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अनुगामिणो तस्स 'ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य-राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाथार्थः ॥
अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः
नि. (१४७३) पढमिल्लुअस्स उदए कोहिस्सअरे वि तिन्नि तत्थत्थि । नय ते न संति तहियं न य पाहनं तहेयंमि ॥
वृ- ‘पढमिल्लु प्रथम एव प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लकस्य उदये, कस्य ?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिन्नििा तत्यत्थि' शेषा अपि त्रयः - अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनादयस्तत्र जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह- 'न य ते न संति तहियं' न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥
अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह
नि. (१४७४) मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य मानसियं निरुद्धमनसो हवइ झाणं ॥
'वृ- 'मा मे एजउ काउ' त्ति एजतु- कम्पतां 'कायो' देह इति, एवं अचलत् एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः । इत्थं प्रतिपादिते सत्याह चोदकः
नि. (१४७५) जह कायमननिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वईं उझाणं न होइ को वा विसेत्थ ? ॥
वृ- 'जह कायमननिरोहे' ननु यथा कायमनसोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुज्जइन एवं 'ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि न कायमनसी यथा सदा प्रवृत्ते तथ वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्थ' त्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः । इत्थं चोदकेनोक्ते सत्याह गुरुःनि. (१४७६) मा मे चलउत्ति तनू जह तं झाणं निरेइणो होइ ।
अजयाभासविवज्रस्स वाइअं झाणमेवं तु ॥
वृ- 'मा मे चलउ' त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्याम्ः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356