Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 461
________________ १०७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि । हा० पृ० ४७ पं. ५, पृ० ६२७ पं० ११ । “द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् । .... तदेवमुलूकप्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाणबाधितत्वाच्च । ...जं सविसय - इत्यादिना गाथापश्चार्धन हेतुमाह- यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् ॥” इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ ३।४९। अस्या गाथाया उत्तरार्धे उभयोरपि स्थानयोः हा० मध्ये निरवेक्खो इति पाठो हस्तलिखितादर्शेषु वर्तते, इति ध्येयम् । हा० पृ० ४७ पं० ५, पृ० ६२७ पं० ९-१२ । “यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति; जैनसाधवस्तु परस्परं स्वाधाराच्च कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम्, कणादवदिति; तथाहि- द्वाभ्यामपि द्रव्य-पर्यास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २१९४-२१९५ ॥ चू० पृ० १२८, हा० पृ०१८७ । अत्र चू० मध्ये समाणा इति पाठः, हा० मध्ये समाणे इति पाठः, किन्तु समाणा इति पाठः समीचीनतरो भाति । चू०हा०हे० पृ० २७३,२७४ । “आगमउदनुबन्धः स्वरादन्त्यात् परः ।२।१६। प्रकृतिप्रत्यययोरनुपघाती आगम उच्यते । आगम उदनुबन्धोऽन्त्यात् स्वरात् परः परिभाष्यते । पद्यानि । पयांसि । ... उदनुबन्ध आगमस्य लिङ्गम् । .... एदोत्परः पदान्ते लोपमकारः ।१२।२७। एदोद्भ्यां परोऽकारः पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र । पटोऽत्र । ... द्विवचनमनौ ।।३।२। द्विवचनान्तं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति, औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते। माले इमे । .... अनौभूतमिति किम् ? तावत्र । .... समानः सवर्णे दीर्धीभवति परश्च लोपमापद्यते ।१।२।१। समानसंज्ञको वर्णः सवर्णे परे दीर्घाभवति, परश्च लोपमापद्यते । दण्डाग्रम् । साऽऽगता । .... .. धुट्स्वराद् घुटि नुः ।२।२।११। धुटः पूर्वः स्वरात् परो नपुंसकलिङ्गस्य घुटि परे नुरागमो भवति । पद्मानि । पयांसि। ... ... इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृत्तौ ॥ ___ सू० पृ० ३०२ पं० ३ । अस्य सर्वस्य स्वरप्रकरणस्य तुलना अभयदेवसूरिविरचितवृत्तिसहितस्य स्थानाङ्गसूत्रस्य सप्तस्थानके तृतीये उद्देशके विद्यमानेन स्वरप्रकरणेन सह कर्तव्या ॥ हे० पृ० ३४८ । “सप्तमीपञ्चम्यन्ते जनेर्डः ।४।३।९१। सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाजने? भवति । जले जातं जलजम् । सरसि जातं सरसिजम् ।... " इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृतौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560