Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 485
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (१) लोकनालिस्तवेऽपि - सोहम्मंमि दिवढा अढाइजा य रज्जु माहिदे । चत्तारि सहस्सारे पणच्चुए सत्त लोगन्ते ॥१४All इत्युक्तम् । रज्ज्वाश्चतुर्थो भागो यस्तत् खंडुकमिति स्मृतम् । विष्कम्भायामपिण्डैस्तत् समानं घनहस्तवत् ॥१५॥ षट्पंचाशत्खंडुकोच्चा सा चतुःखंडुकायता । त्रसनाडी भवेदत्र त्रसजीवाश्रयावधिः ॥१६॥ रेखाः पंचोर्द्धवगाः सप्तपंचाशत्तिर्यगायताः । आलिख्य क्वापि पट्टादौ भावनीया तदाकृतिः ॥१७॥ सा चतुर्दशरज्जूच्चा तथैकरज्जुविस्तृता । सर्वलोकस्याथ मानं वक्ष्ये खंडुकसंख्यया ॥१८॥ रज्ज्वाः सर्वाधः स्थितायाः खंडुकेषु चतुर्ध्वपि । स्युरष्टाविंशतिस्तिर्यक्खंडुकानीति तद्विदः ॥१९॥ तत्रोह्यं त्रसनाडीस्थं खंडुकानां चतुष्टयम् । द्वादश द्वादश ततः परितः पार्श्वयोर्द्वयोः ॥२०॥ एवं सर्वत्रापि ॥ षड्विंशतिर्द्वितीयस्या रज्ज्वाः खंडचतुष्टये । तृतीयस्याः खंडुकेषु चतुर्षु जिनसंख्यया ॥२१॥ नखसंख्यानि तुर्याया रज्ज्वाः तेषु चतुर्ध्वपि । पंचम्याः षोडश दश षष्ठ्यां खंडचतुष्टये ॥२२॥ सप्तम्या अपि खंडेषु चतुर्पु तच्चतुष्टयम् । अष्टम्याः प्राक् खंडुके द्वे चतुःखंडुकविस्तृते ॥२३॥ अपरे द्वे खंडके च षटखंडकसमातते । अष्टखंडकविस्तारं नवम्या आद्यखंडकम ॥२४॥ दशखंडुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखंडुकव्यासे स्युरित्थं नव रज्जवः ॥२५॥ दशम्याः प्राच्यमर्धं च षोडशखंडुकाततम् । परमर्धं तथैतस्या नखखंडुकविस्तृतम् ॥२६।। एकादश्याः पूर्वमर्धमपि तावत्समाततम् । द्वितीयमर्धमस्याश्च षोडशखंडुकाततम् ॥२७॥ द्वादश्याः प्राक्तनं त्व) प्रोक्तं द्वादशखंडुकम् । दशखंडुकविस्तारमन्त्यमर्धमुदीरितम् ॥२८॥ आद्यं खंडं त्रयोदश्या निर्दिष्टं तावदाततम् । अष्टखंडुकविस्तीर्णमग्रिमं खंडुकत्रयम् ॥२९॥ चतुर्दश्याः प्राक्तनेऽर्धे खंडुकानि षडायतिः । चत्वारि खंडुकान्यस्या विस्तृतिः पश्चिमेऽर्धके ॥३०॥ प्रत्येकमेषामंकानां स्वस्ववर्गविधानतः । भवेद्वर्गितलोकस्य मितिः खंडुकसंख्यया ॥३१॥ भवेत्स तद्गुणो वर्ग इति वर्गस्य लक्षणम् । यथाष्टाविंशतेः सप्तशती चतुरशीतियुक् ॥३२॥ एवं सर्वत्र स्थापना विलोक्या ॥ खंडुकानां शतान्यष्टावधिकानि च षोडश । दृष्टलोके दृष्टलोकैरुक्तानि सर्वसंख्यया ॥३३॥ प्रोक्तं वर्गितलोके च सर्वाग्रं खंडुकोद्भवम् । सहस्राणि पंचदश द्वे शते नवतिश्च षट् ॥३४॥ लोकस्य वर्गकरणे ज्ञेयमेतत् प्रयोजनम् । प्रमाणं सर्वतोऽनेन लोकस्य भवति ध्रुवम् ॥३५।। दशहस्तपृथोर्यद्वत्तावद्दीर्घस्य वेश्मनः । दशानां वर्गकरणे सर्वं क्षेत्रफलं भवेत् ॥३६॥ षट्पंचाशत्खंडुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा मध्याधऊर्ध्वभेदतः ॥३७।। ऊर्ध्वमध्याधःस्थितत्वाद् व्यपदिश्यन्त इत्यमी । यद्वोत्कृष्ट-मध्य-हीनपरिणामात्तथोदिताः ॥३८॥ तथा पूर्णेकरज्जुपृथुलात् क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥१००। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560