Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 484
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य *अथ सप्तमं परिशिष्टम् । (१) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् । लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् चू०पृ० ३६५, ४५४, हा०पृ० ३६६, हे०पृ० ४०१ । तुलना “जयत्यभिनवः कोऽपि शंखेश्वरजिनेश्वरः । त्रिविष्टपोद्द्योतहेतुर्नरक्षेत्रस्थितोऽपि यः ॥ १ ॥ स्वरूपं क्षेत्रलोकस्य यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥३॥ चिरमूर्द्धवंदमतया चिरन्तनतयापि च । असौ लोकनरः श्रान्त इव कट्यां न्यधात् करौ ॥४॥ अथवाऽधोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते शरावसम्पुटं लघु ॥५॥ धृतः कृतो न केनापि स्वयंसिद्धो निराश्रयः । निरालम्बः शाश्वतश्च विहायसि परं स्थितः || ६ || उत्पत्ति-विलय-ध्रौव्यगुणषड्द्रव्यपूरितः । मौलिस्थसिद्धमुदितो नृत्यायेवाततक्रमः ॥७॥ अस्य सर्वस्य लोकस्य कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरज्जुसंमितः ||८|| प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥९॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥१०॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥११॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥१३॥ भवेत् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । घर्मोर्द्धवभागादूर्द्धवाधः सप्त सप्तेति रज्जवः ||१४|| युग्मम् ॥ १३० अयं च आवश्यक निर्युक्ति- चूर्णि संग्रहण्याद्यभिप्रायः । भगवत्यादौ च घर्माया अधोऽसंख्ययोजनैः लोकमध्यमुक्तम् । तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते । परं तदिह स्वल्पत्वान्न विवक्षितमिति संभाव्यते ॥ योगशास्त्रवृत्तौ तु " तत्र धरणीतलात् समभागात् सौधमेर्शानौ यावत् सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत् सार्धं रज्जुद्वयम् ब्रह्मलोके अर्धचतुर्था रज्जवः, अच्युतं यावत् पञ्च रज्जवः, ग्रैवेयकं यावत् षट् रज्जवः, लोकान्तं यावत् सप्त रज्जवः” [योगशास्त्रवृ० ४ १०५ ] इति उक्तम् इति । जीवाभिगमवृत्तौ अपि 'बहुसमरमणिजाओ भूमिभागाओ उहं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुइओ जोयणकोडिओ यावत् दूरं उड्ढ उप्पइत्ता एत्थ णं सोहम्मीसाणे' त्यादिसूत्रव्याख्याने अत्र 'बह्वीः योजनकोटी: ऊर्ध्वं दूरं उत्प्लुत्य गत्वा, एतच्च सार्धरज्जूपलक्षणम्' [जीवाभिगमे तृतीयप्रतिपत्तौ वैमानिकोद्देशके ] इति उक्तमिति ॥ Jain Education International * विशेषतः श्रेणिस्वरूपपरिज्ञानार्थं चू० [सू० ३३२, ४१४] हा० [सू० ३३२] हे० [सू०३६१] मध्ये संवर्तित- समचतुरस्रीकृतस्य लोकस्य स्वरूपं विस्तरेण वर्णितम् । किन्तु तत्र विभिन्नानि मतानि श्वेताम्बरपरम्परायां दिगम्बरपरम्परायां च सन्ति । यथा यथा तत्र वर्णनमुपलभ्यते यथा यथा च लोकस्याकृ तिस्तदनुसारेण भवति तस्य वैशद्येन ज्ञानार्थं महोपाध्यायविनयविजयादिविरचितलोकप्रकाशादिग्रन्थेभ्यः समुच्चित्य इहैकत्र उपदर्श्यते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560