Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay
________________
१८५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् बहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिविबलिभक्तिक्षेत्रजङ्घाधनुररुःसंख्यासु च २३ । भृतौ कर्मशब्दे २४ । इ: स्तम्बशकृतोः २५ । हरते१तिनाथयोः पशौ २६ । फलेमलरजःसु ग्रहः २७ । देववातयोरापेः २८ । आत्मोदरकुक्षिषु भृञः खि: २९ । एजे: खश् ३० । शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेट: ३१ । नाडीकरमुष्टिपाणिनासिकासु ध्मश्च ३२ । विध्वरुस्तिलेषु तुदः ३३ । असूर्योग्रयोदृशः ३४ । ललाटे तपः ३५ । मितनखपरिमाणेषु पचः ३६ । कूल उद्रुजोद्वहोः ३७ । वहलिहाभ्रंलिहपरंतपेरंमदाश्च ३८ । वदेः खः प्रियवशयोः ३९ । सर्वकूलाभ्रकरीषेषु कषः ४० । भयर्तिमेघेषु कृत्रः ४१ । क्षेमप्रियमद्रेष्वण च ४२। भावकरणयोस्त्वाशिते भुवः ४३ । नाम्नि तृभृवृजिधारिपारितपिदमिसहां संज्ञायाम् ४४ । गमश्च ४५ । उरोविहायसोरुरविहौ च ४६ । डोऽसंज्ञायामपि ४७ । विहङ्गतुरङ्गभुजङ्गाश्च ४८ । अन्यतोऽपि च ४९ । हन्तेः कर्मण्याशीर्गत्योः ५० । अपात् क्लेशतमसोः ५१ । कुमारशीर्षयोर्णिन् ५२ । टग् लक्षणे जायापत्योः ५३ । अमनुष्यकर्तृकेऽपि च ५४ । हस्तिबाहुकपाटेषु शक्तौ ५५ । पाणिघताडघौ शिल्पिनि ५६ । नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृञः ख्युट् करणे ५७ । भुवः खिष्णुखुको कर्तरि ५८ । भजो विण ५९ । सहश्छन्दसि ६० । वहश्च ६१ । अनसि डश्च ६२ । दुहः को घश्च ६३ । विट् क्रमिगमिखनिसनिजनाम् ६४ । मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो विण ६५ । आतो मन्क्वनिब्वनिविचः ६६ । अन्येभ्योऽपि दृश्यन्ते ६७ । क्विप् च ६८ । वहे पञ्चम्यां भ्रंशेः ६९ । स्पृशोऽनुदके ७० । अदोऽनन्ने ७१ । क्रव्ये च ७२ । ऋत्विग्दधृक्स्रग्दिगुष्णिहश्च ७३ । सत्सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजामुपसर्गेऽपि ७४ । कर्मण्युपमाने त्यदादौ दृशष्टक्सकौ च ७५ । नाम्न्यजातौ णिनिस्ताच्छील्ये ७६ । कर्तर्युपमाने ७७ । व्रताभीक्ष्ण्ययोश्च ७८ । मनः पुंवच्चात्र ७९ । खश्चात्मने ८० । करणेऽतीते यजः ८१ । कर्मणि हनः कुत्सायाम् ८२ । क्विब् ब्रह्मभ्रूणवृत्रेषु ८३ । कृञः सुपुण्यपापकर्ममन्त्रपदेषु ८४ । सोमे सुञः ८५ । चेरग्नौ ८६ । विक्रिय इन् कुत्सायाम् ८७ । दृशेः क्वनिप् ८८ । सहराज्ञोर्युधः ८९ । कृञश्च ९० । सप्तमीपञ्चम्यन्ते जनेर्डः ९१ । अन्यत्रापि च ९२ । निष्ठा ९३ । वनिप् सुयजोः ९४ । जीर्यतेरन्तृन् ९५ ।
इति कृत्सूत्रतः तृतीयः पादः समाप्तः ।
चतुर्थः पादः [कुलादपि वरं शीलं वरं दारिद्र्यमामयात् ।
राज्यादपि वरं विद्या तपसोऽपि वरं क्षमा ॥] क्वन्सुकानौ परोक्षावच्च १ । वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः २ । लक्षणहेत्वोः क्रियायाः ३ । वेत्तेः शन्तुर्वन्सुः ४ । आनोऽत्रात्मने ५ । ई तस्यासः ६ । आन्मोऽन्त आने ७ । पूङ्यजोः शानङ् ८ । शक्तिवयस्ताच्छील्ये ९ । इङ्दारिभ्यां शन्तृङकृच्छ्रे १० । द्विषः शत्रौ ११ । सुजो यज्ञसंयोगे १२ । अर्हः प्रशंसायाम् १३ । तच्छीलतद्धर्मतत्साधुकारिष्वा क्के: १४ । तृन् १५ । भ्राज्यलंकृभूसहिरुचिवृतिवृधिचरिप्रजनापत्रपेनामिष्णुच् १६ । मदिपतिपचामुदि १७ । जिभुवोः मुक् १८ । ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः १९ । त्रसिगृधिधृषिक्षिपां क्नुः २० । शमामष्टानां घिनिण् २१ । युजभुजभजद्विषट्ठहदुहदुषाङ्क्रीडत्यजानुरुधाङ्यमाङ्यसरंजाभ्याङ्हनां च २२ । समिसृजिपृचिज्वरित्वराम् २३ । वौ विचकत्थश्रंभुकषलषाम् २४ । प्रे द्रुमथवदवसलपाम् २५ । परौ सृदहोः २६ । क्षिपरटवदवादिदेविभ्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560