Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 542
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १८८ ४४ । भुवस्तूष्णीमि च ४५ । कर्तरि कृत् ४६ । भावकर्मणोः कृत्यक्तखलाः ४७ । आदिकर्मणि क्तः कर्तरि च ४८ । गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च ४९ । दाशगोघ्नौ सम्प्रदाने ५० । भीमादयोऽपादाने ५१ । ताभ्यामन्यत्रोणादयः ५२ । क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य: ५३ । युवुझामनाकान्ताः ५४ । समासे भाविन्यनञः क्त्वो यप् ५५ । चजोः कगौ धुघानुबन्धयोः ५६ । न्यवादीनां हश्च घः ५७ । न कवर्गादिव्रज्यजाम् ५८ । घ्यण्यावश्यके ५९ । प्रवचर्चिरुचियाचित्यजाम् ६० । वचोऽशब्दे ६१ । निप्राभ्यां युजः शक्ये ६२ । भुजोऽन्ने ६३ । भुजन्युब्जौ पाणिरोगयोः ६४ । दृग्दृशदृक्षेषु समानस्य सः ६५ । इदमीः ६६ । किम् कीः ६७। अदोऽमू: ६८ । आः सर्वनाम्नः ६९ । विष्वग्देवयोश्चान्त्यस्वरादेरव्यञ्चतौ क्वौ ७० । सहसंतिरसां सध्रिसमितिरयः ७१ । रुहे? वा ७२ । मो नो धातोः ७३ । वमोश्च ७४ । स्वरे धातुरनात् ७५ । अतीण्घसैकस्वरातामिड् वन्सौ ७६ । गमहनविदविशदृशां वा ७७ । दाश्वान् साह्वान् मीदवांश्च ७८ । न श्युवर्णवृतां कानुबन्धे ७९ । घोषवत्योश्च कृति ८० । वेषुसहलुभरुषरिषां ति ८१ । रधादिभ्यश्च ८२ । स्वरतिसूतिसूयत्यूदनुबन्धात् ८३ । उदनुबन्धपूक्लिशां क्त्वि ८४ । जृव्रश्च्योरिट् ८५ । लुभो विमोहने ८६ । क्षुधिवसोश्च ८७ । निष्ठायां च ८८ । पूक्लिशोर्वा ८९ । न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः ९० । आदनुबन्धाच्च ९१ । भावादिकर्मणोर्वा ९२ । क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां क्ते नेड् मन्थभृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु ९३ । लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टस्वरेषु ९४ । परिवृढदृढौ प्रभुबलवतोः ९५ । संनिविभ्योऽर्देः ९६ । सामीप्येऽभेः ९७ । वारुष्यमत्वरसंघुषास्वनाम् ९८ । हरेर्लोमसु ९९ । दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ताः १०० । रानिष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः १०१ । दाद्दस्य च १०२ । आतोऽन्तःस्थासंयुक्तात् १०३ । ल्वाद्योदनुबन्धाच्च १०४ । व्रश्चेः क च १०५ । क्षेर्दीर्घात् १०६ । श्योऽस्पर्शे १०७ । अनपादानेऽन्चेः १०८ । अविजिगीषायां दिवः १०९ । ह्रीघ्रात्रोन्दनुदविदां वा ११० । क्षैशुषिपचां मकवाः १११ । वा प्रस्त्यो मः ११२ । निर्वाणोऽवाते ११३ । भित्तर्णवित्ताः शकलाधमर्णभोगेषु ११४ । अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ११५ । अवर्णादूटो वृद्धिः ११६ । इति कृत्सूत्रतः षष्ठः पादः समाप्तः ॥ (२) *कातन्त्रधातुपाठः अथ भ्वादयः (धातुसूत्राणि - ६१६) भू सत्तायाम् १ । चिती संज्ञाने २ । अत सातत्यगमने ३ । च्युतिर् आसेचने ४ । श्च्युतिर् क्षरणे ५ । मन्थ विलोडने ६ । कुथि पुथि युथि लुथि हिंसासंक्लेशयोः ७ । षिधु गत्याम् ८ । षिधू शास्त्रे माङ्गल्ये च ९ । खादृ भक्षणे १० । बद स्थैर्ये ११ । खद हिंसायां च १२ । गद व्यक्तायां वाचि १३ । रद विलेखने * कातन्त्रधातुपाठः पत्तन = पाटण]प्रभृतिस्थानेषु उपलभ्यते । अस्माभिः पत्तनस्थे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे [डा०१२८ नं.३७६२] विद्यमानेन हस्तलिखितादर्शन सह केवलं तुलना कथंचिद् विहिता। तत्र भूयांसः पाठभेदाः सन्ति । किन्त्वस्माभिः द्वित्रेषु धातुषु एव तत्रत्यः पाठभेदोऽत्र निर्दिष्टः, मुख्यतया तु सारनाथप्रकाशितकलापव्याकरणस्थधातुपाठानुसारमत्र कातन्त्रधातुपाठ उपन्यस्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560