________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य
*अथ सप्तमं परिशिष्टम् ।
(१) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् । लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम्
चू०पृ० ३६५, ४५४, हा०पृ० ३६६, हे०पृ० ४०१ । तुलना
“जयत्यभिनवः कोऽपि शंखेश्वरजिनेश्वरः । त्रिविष्टपोद्द्योतहेतुर्नरक्षेत्रस्थितोऽपि यः ॥ १ ॥ स्वरूपं क्षेत्रलोकस्य यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥३॥ चिरमूर्द्धवंदमतया चिरन्तनतयापि च । असौ लोकनरः श्रान्त इव कट्यां न्यधात् करौ ॥४॥ अथवाऽधोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते शरावसम्पुटं लघु ॥५॥ धृतः कृतो न केनापि स्वयंसिद्धो निराश्रयः । निरालम्बः शाश्वतश्च विहायसि परं स्थितः || ६ || उत्पत्ति-विलय-ध्रौव्यगुणषड्द्रव्यपूरितः । मौलिस्थसिद्धमुदितो नृत्यायेवाततक्रमः ॥७॥ अस्य सर्वस्य लोकस्य कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरज्जुसंमितः ||८|| प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥९॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥१०॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥११॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥१३॥ भवेत् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । घर्मोर्द्धवभागादूर्द्धवाधः सप्त सप्तेति रज्जवः ||१४||
युग्मम् ॥
१३०
अयं च आवश्यक निर्युक्ति- चूर्णि संग्रहण्याद्यभिप्रायः । भगवत्यादौ च घर्माया अधोऽसंख्ययोजनैः लोकमध्यमुक्तम् । तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते । परं तदिह स्वल्पत्वान्न विवक्षितमिति संभाव्यते ॥ योगशास्त्रवृत्तौ तु " तत्र धरणीतलात् समभागात् सौधमेर्शानौ यावत् सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत् सार्धं रज्जुद्वयम् ब्रह्मलोके अर्धचतुर्था रज्जवः, अच्युतं यावत् पञ्च रज्जवः, ग्रैवेयकं यावत् षट् रज्जवः, लोकान्तं यावत् सप्त रज्जवः” [योगशास्त्रवृ० ४ १०५ ] इति उक्तम् इति । जीवाभिगमवृत्तौ अपि 'बहुसमरमणिजाओ भूमिभागाओ उहं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुइओ जोयणकोडिओ यावत् दूरं उड्ढ उप्पइत्ता एत्थ णं सोहम्मीसाणे' त्यादिसूत्रव्याख्याने अत्र 'बह्वीः योजनकोटी: ऊर्ध्वं दूरं उत्प्लुत्य गत्वा, एतच्च सार्धरज्जूपलक्षणम्' [जीवाभिगमे तृतीयप्रतिपत्तौ वैमानिकोद्देशके ] इति उक्तमिति ॥
Jain Education International
* विशेषतः श्रेणिस्वरूपपरिज्ञानार्थं चू० [सू० ३३२, ४१४] हा० [सू० ३३२] हे० [सू०३६१] मध्ये संवर्तित- समचतुरस्रीकृतस्य लोकस्य स्वरूपं विस्तरेण वर्णितम् । किन्तु तत्र विभिन्नानि मतानि श्वेताम्बरपरम्परायां दिगम्बरपरम्परायां च सन्ति । यथा यथा तत्र वर्णनमुपलभ्यते यथा यथा च लोकस्याकृ तिस्तदनुसारेण भवति तस्य वैशद्येन ज्ञानार्थं महोपाध्यायविनयविजयादिविरचितलोकप्रकाशादिग्रन्थेभ्यः समुच्चित्य इहैकत्र उपदर्श्यते ।
For Private & Personal Use Only
www.jainelibrary.org