________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (१) लोकनालिस्तवेऽपि - सोहम्मंमि दिवढा अढाइजा य रज्जु माहिदे । चत्तारि सहस्सारे पणच्चुए सत्त लोगन्ते ॥१४All
इत्युक्तम् । रज्ज्वाश्चतुर्थो भागो यस्तत् खंडुकमिति स्मृतम् । विष्कम्भायामपिण्डैस्तत् समानं घनहस्तवत् ॥१५॥ षट्पंचाशत्खंडुकोच्चा सा चतुःखंडुकायता । त्रसनाडी भवेदत्र त्रसजीवाश्रयावधिः ॥१६॥ रेखाः पंचोर्द्धवगाः सप्तपंचाशत्तिर्यगायताः । आलिख्य क्वापि पट्टादौ भावनीया तदाकृतिः ॥१७॥ सा चतुर्दशरज्जूच्चा तथैकरज्जुविस्तृता । सर्वलोकस्याथ मानं वक्ष्ये खंडुकसंख्यया ॥१८॥ रज्ज्वाः सर्वाधः स्थितायाः खंडुकेषु चतुर्ध्वपि । स्युरष्टाविंशतिस्तिर्यक्खंडुकानीति तद्विदः ॥१९॥ तत्रोह्यं त्रसनाडीस्थं खंडुकानां चतुष्टयम् । द्वादश द्वादश ततः परितः पार्श्वयोर्द्वयोः ॥२०॥ एवं सर्वत्रापि ॥ षड्विंशतिर्द्वितीयस्या रज्ज्वाः खंडचतुष्टये । तृतीयस्याः खंडुकेषु चतुर्षु जिनसंख्यया ॥२१॥ नखसंख्यानि तुर्याया रज्ज्वाः तेषु चतुर्ध्वपि । पंचम्याः षोडश दश षष्ठ्यां खंडचतुष्टये ॥२२॥ सप्तम्या अपि खंडेषु चतुर्पु तच्चतुष्टयम् । अष्टम्याः प्राक् खंडुके द्वे चतुःखंडुकविस्तृते ॥२३॥ अपरे द्वे खंडके च षटखंडकसमातते । अष्टखंडकविस्तारं नवम्या आद्यखंडकम ॥२४॥ दशखंडुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखंडुकव्यासे स्युरित्थं नव रज्जवः ॥२५॥ दशम्याः प्राच्यमर्धं च षोडशखंडुकाततम् । परमर्धं तथैतस्या नखखंडुकविस्तृतम् ॥२६।। एकादश्याः पूर्वमर्धमपि तावत्समाततम् । द्वितीयमर्धमस्याश्च षोडशखंडुकाततम् ॥२७॥ द्वादश्याः प्राक्तनं त्व) प्रोक्तं द्वादशखंडुकम् । दशखंडुकविस्तारमन्त्यमर्धमुदीरितम् ॥२८॥ आद्यं खंडं त्रयोदश्या निर्दिष्टं तावदाततम् । अष्टखंडुकविस्तीर्णमग्रिमं खंडुकत्रयम् ॥२९॥ चतुर्दश्याः प्राक्तनेऽर्धे खंडुकानि षडायतिः । चत्वारि खंडुकान्यस्या विस्तृतिः पश्चिमेऽर्धके ॥३०॥ प्रत्येकमेषामंकानां स्वस्ववर्गविधानतः । भवेद्वर्गितलोकस्य मितिः खंडुकसंख्यया ॥३१॥ भवेत्स तद्गुणो वर्ग इति वर्गस्य लक्षणम् । यथाष्टाविंशतेः सप्तशती चतुरशीतियुक् ॥३२॥ एवं सर्वत्र स्थापना विलोक्या ॥ खंडुकानां शतान्यष्टावधिकानि च षोडश । दृष्टलोके दृष्टलोकैरुक्तानि सर्वसंख्यया ॥३३॥ प्रोक्तं वर्गितलोके च सर्वाग्रं खंडुकोद्भवम् । सहस्राणि पंचदश द्वे शते नवतिश्च षट् ॥३४॥ लोकस्य वर्गकरणे ज्ञेयमेतत् प्रयोजनम् । प्रमाणं सर्वतोऽनेन लोकस्य भवति ध्रुवम् ॥३५।। दशहस्तपृथोर्यद्वत्तावद्दीर्घस्य वेश्मनः । दशानां वर्गकरणे सर्वं क्षेत्रफलं भवेत् ॥३६॥ षट्पंचाशत्खंडुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा मध्याधऊर्ध्वभेदतः ॥३७।। ऊर्ध्वमध्याधःस्थितत्वाद् व्यपदिश्यन्त इत्यमी । यद्वोत्कृष्ट-मध्य-हीनपरिणामात्तथोदिताः ॥३८॥ तथा पूर्णेकरज्जुपृथुलात् क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥१००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org