Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 527
________________ १७३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ नवमं परिशिष्टम् । (१) शर्ववर्मप्रणीतं 'कातन्त्रव्याकरणम् । प्रथमं सन्धिप्रकरणम् । प्रथमः सन्धिः - [ॐ नमः श्री सरस्वत्यै । ॐ नमो विनायकाय । सरस्वती मया दृष्टा दिव्या कमललोचना । हंसस्कन्धसमारूढा वीणापुस्तकधारिणी॥] सिद्धो वर्णसमाम्नायः १। तत्र चतुर्दशाऽऽदौ स्वराः २१ दश समानाः ३। तेषां द्वौ द्वावन्योन्यस्य सवर्णी ४। पूर्वो ह्रस्व: ५। परो दीर्घः ६। स्वरोऽवर्णव| नामी ७। एकारादीनि सन्ध्यक्षराणि ८। कादीनि व्यञ्जनानि ९ ते वर्गाः पञ्च पञ्च पञ्च १० वर्गाणां प्रथमद्वितीया: शषसाश्चाऽघोषा: ११ घोषवन्तोऽन्ये १२१ अनुनासिका ङञणनमाः १३। अन्तस्था यरलवाः १४। ऊष्माणः शषसहाः १५। अः इति विसर्जनीयः १६। ४ क इति जिह्वामूलीयः १७९७ प इत्युपध्मानीयः १८। अंइत्यनुस्वारः १९। पूर्वपरयोरर्थोपलब्धौ पदम् २०। व्यञ्जनमस्वरं परं वर्णं नयेत् २१॥ अनतिक्रमयन् विश्लेषयेत् २२। लोकोपचाराद् ग्रहणसिद्धि: २३। इति सन्धौ सूत्रतः प्रथमः सन्धिः समाप्तः । * अनुयोगद्वारसूत्रस्य चूर्णी हारिभत्र्यां वृत्तौ मलधारिश्री हेमचन्द्रसूरिविरचितायां वृत्तौ च कातन्त्रव्याकरणात् कातन्त्रधातुपाठाच्च बहवः पाठा उद्धृताः, तेषां सम्यगवबोधार्थं कातन्त्रव्याकरणादिकं द्रष्टव्यं वर्तते । किन्तु तत् केवलं बङ्गलिप्यां मुद्रितमासीत्, न तु देवनागर्यां लिप्याम् । अतो वाराणसीस्थेन भारतीयविद्याप्रकाशनेन १९८७ खिस्ताब्दे दुर्गसिंहविरचितया वृत्त्या सह देवनागर्यां लिप्यामस्य प्रकाशनं विहितम् । किन्तु तत्र अशुद्धपाठानामतिप्राचुर्यं वर्तते । १९८८ ख्रिस्ताब्दे सारनाथ(वाराणसी)स्थेन केन्द्रीय उच्चतिब्बतीसंस्थानेन कलापव्याकरणनाम्ना कातन्त्रव्याकरणस्य केवलं मूलसूत्राणां कातन्त्रधातुपाठादेश्चापि प्रकाशनं विहितम् । कातन्त्रव्याकरणस्य प्रणेता शर्ववर्माचार्यः, स च पाणिनीयव्याकरणमहाभाष्यस्य रचयितुः पतञ्जलेरपि पूर्वं संजात इति विदुषामभिप्रायः। प्राचीनसमये भारतवर्षेऽस्य कातन्त्रव्याकरणस्य भूयान् प्रचार आसीत् । अस्मिन् व्याकरणे सन्धिप्रकरणं नामचतुष्कप्रकरणम् आख्यातप्रकरणं चेति प्रकरणत्रयमेव च आचार्यशर्ववर्मणा प्रणीतम् । कृत्प्रकरणं तु वररुचिना कात्यायनेन प्रणीतम् । नामचतुष्के नाम-कारक-समास-तद्धितसूत्राणि वर्तन्ते । एतानि चत्वार्यपि सन्ध्यादीनि प्रकरणानि कातन्त्रव्याकरणनाम्नैव व्यवह्रियन्ते । शर्ववर्मप्रणीतानि ८५४ सूत्राणि वररुचिप्रणीतानि ५४७ सूत्राणि । सर्वसंमीलने १४०७ सूत्राणि । वररुचिप्रणीतानि कृत्सूत्राणि दुर्गसिहेन कातन्त्रसम्बद्धानीति विज्ञाय एकत्र योजितानि इति विदुषामभिप्रायः । एतेषु शर्ववर्म-कात्यायनप्रणीतेषु सूत्रेषु प्राचीना दुर्गसिंहविरचिता वृत्तिः साम्प्रतमुपलभ्यते । अत्रापि टीका-प्रटीकादिकं प्रभूतं वाङ्मयं जेसलमेर-पत्तन(पाटण)-खम्भातादिनगरस्थेषु जैनग्रन्थभाण्डागारेषु तालपत्रोपरि कागजपत्रोपरि च लिखितं विद्यते । ___ तत्रत्यान् कतिपयग्रन्थानवलम्ब्य दुर्गसिंहविरचितवृत्त्या सह अस्माभिरस्य संशोधनं प्रारब्धमस्ति । यथासमयं तस्यापि प्रकाशनं कर्तुं समीहामहे। जैनग्रन्थभाण्डागारस्थहस्तलिखितादर्शानुसारं क्वचित् क्वचित् पाठभेदेन सह कातन्त्रव्याकरणमूलसूत्राणि इह उपन्यस्यते । पाटणस्थे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे (डा०१२८ नं०३७६२) विद्यमाने एकस्मिन् कातन्त्रव्याकरणसूत्रपाठादिपुस्तके प्रतिप्रकरणं प्रतिपादं च प्रारम्भे सुभाषितरूपाः श्लोकाः केनचिल्लेखकेन लिखिताः सन्ति । न ते कातन्त्र्यव्याकरणस्यांशाः, केवलमानन्ददायका इत्येव अस्माभिरत्र ते [ ] एतादृशे चतुरस्रकोष्ठके उपन्यस्ताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560