Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
१७७
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम्
वसिष्ठगोतमेभ्यश्च ७। यतोऽपैति भयमादत्ते वा तदपादानम् ८। ईप्सितं च रक्षार्थानाम् ९। यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् १०। य आधारस्तदधिकरणम् ११। येन क्रियते तत् करणम् १२। यत् क्रियते तत् कर्म १३॥ यः करोति स कर्ता १४। कारयति यः स हेतुश्च १५। तेषां परमुभयप्राप्तौ १६। प्रथमा विभक्तिर्लिङ्गार्थवचने १७। आमन्त्रणे च १८। शेषाः कर्मकरणसम्प्रदानापादानस्वाम्याद्यधिकरणेषु १९। पर्यपाङ्योगे पञ्चमी २०। दिगितरर्तेऽन्यैश्च २१। द्वितीयैनेन २२। कर्मप्रवचनीयैश्च २३। गत्यर्थकर्मणि द्वितीयोचतुझे चेष्टायामनध्वनि २४। मन्यकर्मणि चानादरेऽप्राणिनि २५। नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी २६। तादर्थ्ये २७। तुमर्थाच्च भाववाचिन: २८। तृतीया सहयोगे २९। हेत्वर्थे ३०। कुत्सितेऽङ्गे ३१॥ विशेषणे ३२॥ कर्तरि च ३३। कालभावयोः सप्तमी ३४। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च ३५। निर्धारणे च ३६। षष्ठी हेतुप्रयोगे ३७। स्मृत्यर्थकर्मणि ३८ करोतेः प्रतियत्ने ३९। हिंसार्थानामज्वरेः ४० कर्तृकर्मणोः कृति नित्यम् ४१। न निष्ठादिषु ४२। षडो णो ने ४३। मनोरनुस्वारो घुटि ४४। वर्गे वर्गान्तः ४५। तवर्गश्चटवर्गयोगे चटव! ४६। नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ४७। रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि ४८। स्त्रियामादा ४९। नदाद्यन्व्वाह्वयन्स्यन्तृसखिनान्तेभ्य ई ५०। ईकारे स्त्रीकृतेऽलोप्यः ५१। स्वरो ह्रस्वो नपुंसके ५२।
इति नाम्नि सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः [धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च ।
आहारे व्यवहारे च त्यक्तलजः सदा भवेत् ॥] नाम्नां समासो युक्तार्थः १। तत्स्था लोप्या विभक्तयः २। प्रकृतिश्च स्वरान्तस्य ३। व्यञ्जनान्तस्य यत्सुभोः ४॥१॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः ५। संख्यापूर्वो द्विगुरिति ज्ञेयः ६। तत्पुरुषावुभौ ७॥२॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ८॥३॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ९। विदिक् तथा १०॥४॥ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् ११॥ अल्पस्वरतरं तत्र पूर्वम् १२। यच्चार्चितं द्वयोः १३॥५॥ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते १४। स नपुंसकलिङ्गं स्यात् १५। द्वन्द्वैकत्वम् १६। तथा द्विगोः १७॥६॥ पुंवद् भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे १८। संज्ञापूरणीकोपधास्तु न १९॥७॥ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते २०। आकारो महतः कार्यस्तुल्याधिकरणे पदे २१॥८॥ नस्य तत्पुरुषे लोप्यः २२। स्वरेऽक्षरविपर्यय: २३। कोः कत् २४। का त्वीषदर्थेऽक्षे २५। पुरुषे तु विभाषया २६॥९॥ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् २७। ह्रस्वस्य दीर्घता २८। अनव्ययविसृष्टस्तु सकारं कपवर्गयोः २९॥१०॥
इति समाससूत्राणि समाप्तानि ॥ षष्ठः पादः [उद्यमे नास्ति दारिद्र्यं पठने नास्ति मूर्खता ।।
मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥] वाणपत्ये १। ण्य गर्गादेः २। कुञ्जादेरायनण् स्मृतः ३। स्त्र्यत्र्यादेरेयण् ४। इणत: ५। बाह्वादेश्च विधीयते ६॥११॥ रागानक्षत्रयोगाच्च समूहात् साऽस्य देवता ॥ तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते ७॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560