Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay
________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - ( १ ) कातन्त्रव्याकरणम्
[ किं कुलेत विशालेन विद्याहीनेन देहिनः । अकुलीनोऽपि शास्त्रज्ञो देवैरपि च पूज्यते ॥]
नाम्यन्तयोर्धातुविकरणयोर्गुणः १। नामिनश्चोपधाया लधोः २। अनि च विकरणे ३। करोतेः ४ | मिदे: ५। अभ्यस्तानामुस ६ । नणकारानुबन्धचेक्रीयितयोः ७। अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके ८। सनि चानिटि ९ । सिजाशिषोश्चात्मने १० । ऋदन्तानां च ११ । स्थादोश्च १२ । भुवः सिज्लुकि १३ । सूतेः पञ्चम्याम् १४ । दीधीवेव्योश्च १५ । रुदविदमुषां सनि १६ । नाम्यन्तानामनिटाम् १७| सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः १८ । द्वित्वबहुत्वयोश्च परस्मै १९। परोक्षायां च २० | सर्वत्रात्मने २१ । आशिषि च परस्मै २२। सप्तम्यां च २३ । हौ च २४ । तुदादेरनि २५ । आमि विदेरेव २६ । कुटादेरनिनिचट्सु २७| विजेरिटि २८। स्थादोरिरद्यतन्यामात्मने २९ | मुचादेरागमो नकारः स्वरादनि विकरणे ३० | मस्जिन शोधुटि ३१ । रधिजभोः स्वरे ३२। नेटि रधेरपरोक्षायाम् ३३ । रभिलभोरविकरणपरोक्षयोः ३४ । हुधुड्भ्यां हेर्धिः ३५ | अस्तेः ३६ | शा शास्तेश्च ३७। लोपोऽभ्यस्तादन्तिनः ३८ । आत्मने चानकारात् ३९। शेतेरिरन्तेरादिः ४० । आकारादट औ ४१। ऋदन्तस्येरगुणे ४२॥ उरोष्ठ्योपधस्य च ४३ । इन्यसमानलोपोपधाया ह्रस्वश्चणि ४४ । न शासृदनुबन्धानाम् ४५। लोपः पिबतेरीच्चाभ्यासस्य ४६ । तिष्ठतेरित् ४७ । जिघ्रतेर्वा ४८ |
इत्याख्याते सूत्रतः पञ्चमः पादः ।
१८१
पञ्चमः पादः
षष्ठः पादः [गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः ॥]
अनिदनुबन्धानामगुणेऽनुषङ्गलोपः १ । नशब्दाच्च विकरणात् २ । परोक्षायामिन्धिश्रन्थिग्रन्थिदंभी नामगुणे ३ । दंशिसंजिस्वंजिरंजीनामनि ४ । अस्योपधाया दीर्धो वृद्धिर्नामिनामिनिचट्सु ५ । सिचि परस्मै स्वरान्तानाम् ६। व्यञ्जनान्तानामनिटाम् ७ । अस्य च दीर्घः ८ । वदव्रजरलन्तानां च ९ | श्विजाग्रोर्गुणः १०। अर्तिसर्त्योरणि ११ । जागर्तेः कारिते १२ । यणाशिषोर्ये १३ । परोक्षायामगुणे १४ । ऋतश्च संयोगादेः १५ । ऋदन्तानां च १६ । ऋच्छ ऋतः १७ | शीङः सार्वधातुके १८ । अयीर्ये १९ । आयिरिच्यादन्तानाम् २० । शाछासाह्वाव्यावेपामिनि २१ । अर्तिहीब्लीरीक्नूयीक्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् २२ । पातेर्लोऽन्तः २३ । धूञ्प्रीणात्योर्नः २४ । स्फायेर्वादेशः २५ । शदेरगतौ तः २६ । हन्तेस्तः २७ । स्य हन्तेर्धिरिनिचोः २८ । लुप्तोपधस्य च २९ । अभ्यासाच्च ३० । जेर्गि: सन्परोक्षयोः ३१ । चेः कि वा ३२ । सोऽलोपः स्वरेऽबहुत्वे ३३ । दरिद्रातेरसार्वधातुके ३४ । व्रश्चिमस्जोर्धुटि ३५ । यन्योकारस्य ३६ । आकारस्योम ३७ । सन्ध्यक्षरे च ३८ । अस्तेः सौ ३९ । असन्ध्यक्षरयोरस्य तौ तल्लोपश्च ४० । दीधीवेव्योरिवर्णयकारयोः ४१ । नामिव्यञ्जनान्तादायेरादे: ४२ । गम-हन-जन-खन-घसामुपधायाः स्वरादावनण्यगुणे ४३ । कारितस्यानामिविकरणे ४४ । यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य यिन्नायिषु ४५ । नलोपश्च ४६ । व्यञ्जनाद् दिस्योः ४७ | यस्याननि ४८ । अस्य च लोपः ४९ । सिचो धकारे ५० । धुटश्च धुटि ५१ । हस्वाच्चानिटः ५२ । इटश्चेटि ५३ । स्कोः संयोगाद्योरन्ते च ५४ । चवर्गस्य किरसवर्णे ५५ । हो ढः ५६ । दादेर्घः ५७ । नहेर्ध: ५८ । भृजादीनां षः ५९ । छशोश्च ६० । भाषितपुंस्कं पुंवदायौ ६१ । आदातामाथामादेरिः ६२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560