Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 528
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७४ द्वितीयः सन्धिः [सरस्वत्याः प्रसादेन काव्यं कुर्वन्ति मानवाः । तस्मान्निश्चलभावेन पूजनीया सरस्वती ॥] समानः सवर्णे दीर्घीभवति परश्च लोपम् १ | अवर्ण इवर्णे ए २। उवर्णे ओ ३। ऋवर्णे अर् ४। वर्णे अलू ५। एकारे ऐ ऐकारे च ६ । ओकारे औ औकारे च ७ । इवर्णो यमसवर्णे न च परो लोप्यः ८। वमुवर्णः ९। रमृवर्णः १०। लम् लवर्णः ११ । ए अय् १२ | ऐ आय् १३ । ओ अव् १४। औ आव् १५। अयादीनां यवलोपः पदान्ते न वा, लोपे तु प्रकृतिः १६ । एदोत्परः पदान्ते लोपमकारः १७। न व्यञ्जने स्वराः सन्धेयाः १८ | इति सन्धौ सूत्रतः द्वितीयः सन्धिः समाप्तः । [या देवी श्रूयते नित्यं विबुधैर्वेदपारगैः । सा मे भवतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥] ओदन्ता अइउआ निपाताः स्वरे प्रकृत्या १। द्विवचनमनौ २ | बहुवचनममी ३ | अनुपदिष्टाश्च ४ | इति सन्धौ सूत्रतः तृतीयः सन्धिः समाप्तः । तृतीयः सन्धि: चतुर्थः सन्धिः [लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ |] वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् १ । पञ्चमे पञ्चमांस्तृतीयान् नवा २ | वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा ३ । तेभ्य एव हकारः पूर्वचतुर्थं नवा ४। पररूपं तकारो लचटवर्गेषु ५। चं शे ६ | ङणना ह्रस्वोपधाः स्वरे द्विः ७| नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् ८ । टठयोः षकारम् ९। तथयोः सकारम् १०। ले लम् ११। जझञशकारेषु ञकारम् १२ । शिन्चौ वा १३ । डढणपरस्तु णकारम् १४। मोऽनुस्वारं व्यञ्जने १५ वर्गे तदूवर्गपञ्चमं वा १६ । इति सन्धौ सूत्रतः चतुर्थः सन्धिः समाप्तः । [यस्य माता उमा देवी पिता यस्य महेश्वरः । मूषको वाहनं यस्य स मां पातु विनायकः ॥ |] विसर्जनीयश्चे छे वा शम् १ | टे ठे वा षम् २। ते थे वा सम् ३। कखयोर्जिह्वामूलीयं नवा ४। पफयोरुपध्मानीयं नवा ५। शेषे से वा वा पररूपम् ६ । उमकारयोर्मध्ये ७| अघोषवतोश्च ८ । अपरो लोप्योऽन्यस्वरे यं वा ९ । आभोभ्यामेवमेव स्वरे १० । घोषवति लोपम् ११ । नामिपरो रम् १२ । घोषवत्स्वरपरः १३। प्रकृतिरनामिपरोऽपि १४। एष सपरो व्यञ्जने लोप्यः १५ । न विसर्जनीयलोपे पुनः सन्धिः १६ । रो रे लोपं स्वरश्च पूर्वो दीर्घः १७ । द्विर्भावं स्वरपरश्छकार ः १८ । इति सन्धौ सूत्रतः पञ्चमः सन्धिः समाप्तः । पञ्चमः सन्धिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560