________________
१७३
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य
अथ नवमं परिशिष्टम् । (१) शर्ववर्मप्रणीतं 'कातन्त्रव्याकरणम् ।
प्रथमं सन्धिप्रकरणम् । प्रथमः सन्धिः -
[ॐ नमः श्री सरस्वत्यै । ॐ नमो विनायकाय । सरस्वती मया दृष्टा दिव्या कमललोचना । हंसस्कन्धसमारूढा वीणापुस्तकधारिणी॥]
सिद्धो वर्णसमाम्नायः १। तत्र चतुर्दशाऽऽदौ स्वराः २१ दश समानाः ३। तेषां द्वौ द्वावन्योन्यस्य सवर्णी ४। पूर्वो ह्रस्व: ५। परो दीर्घः ६। स्वरोऽवर्णव| नामी ७। एकारादीनि सन्ध्यक्षराणि ८। कादीनि व्यञ्जनानि ९ ते वर्गाः पञ्च पञ्च पञ्च १० वर्गाणां प्रथमद्वितीया: शषसाश्चाऽघोषा: ११ घोषवन्तोऽन्ये १२१ अनुनासिका ङञणनमाः १३। अन्तस्था यरलवाः १४। ऊष्माणः शषसहाः १५। अः इति विसर्जनीयः १६। ४ क इति जिह्वामूलीयः १७९७ प इत्युपध्मानीयः १८। अंइत्यनुस्वारः १९। पूर्वपरयोरर्थोपलब्धौ पदम् २०। व्यञ्जनमस्वरं परं वर्णं नयेत् २१॥ अनतिक्रमयन् विश्लेषयेत् २२। लोकोपचाराद् ग्रहणसिद्धि: २३।
इति सन्धौ सूत्रतः प्रथमः सन्धिः समाप्तः ।
* अनुयोगद्वारसूत्रस्य चूर्णी हारिभत्र्यां वृत्तौ मलधारिश्री हेमचन्द्रसूरिविरचितायां वृत्तौ च कातन्त्रव्याकरणात् कातन्त्रधातुपाठाच्च बहवः पाठा उद्धृताः, तेषां सम्यगवबोधार्थं कातन्त्रव्याकरणादिकं द्रष्टव्यं वर्तते । किन्तु तत् केवलं बङ्गलिप्यां मुद्रितमासीत्, न तु देवनागर्यां लिप्याम् । अतो वाराणसीस्थेन भारतीयविद्याप्रकाशनेन १९८७ खिस्ताब्दे दुर्गसिंहविरचितया वृत्त्या सह देवनागर्यां लिप्यामस्य प्रकाशनं विहितम् । किन्तु तत्र अशुद्धपाठानामतिप्राचुर्यं वर्तते । १९८८ ख्रिस्ताब्दे सारनाथ(वाराणसी)स्थेन केन्द्रीय उच्चतिब्बतीसंस्थानेन कलापव्याकरणनाम्ना कातन्त्रव्याकरणस्य केवलं मूलसूत्राणां कातन्त्रधातुपाठादेश्चापि प्रकाशनं विहितम् ।
कातन्त्रव्याकरणस्य प्रणेता शर्ववर्माचार्यः, स च पाणिनीयव्याकरणमहाभाष्यस्य रचयितुः पतञ्जलेरपि पूर्वं संजात इति विदुषामभिप्रायः। प्राचीनसमये भारतवर्षेऽस्य कातन्त्रव्याकरणस्य भूयान् प्रचार आसीत् ।
अस्मिन् व्याकरणे सन्धिप्रकरणं नामचतुष्कप्रकरणम् आख्यातप्रकरणं चेति प्रकरणत्रयमेव च आचार्यशर्ववर्मणा प्रणीतम् । कृत्प्रकरणं तु वररुचिना कात्यायनेन प्रणीतम् । नामचतुष्के नाम-कारक-समास-तद्धितसूत्राणि वर्तन्ते । एतानि चत्वार्यपि सन्ध्यादीनि प्रकरणानि कातन्त्रव्याकरणनाम्नैव व्यवह्रियन्ते । शर्ववर्मप्रणीतानि ८५४ सूत्राणि वररुचिप्रणीतानि ५४७ सूत्राणि । सर्वसंमीलने १४०७ सूत्राणि । वररुचिप्रणीतानि कृत्सूत्राणि दुर्गसिहेन कातन्त्रसम्बद्धानीति विज्ञाय एकत्र योजितानि इति विदुषामभिप्रायः । एतेषु शर्ववर्म-कात्यायनप्रणीतेषु सूत्रेषु प्राचीना दुर्गसिंहविरचिता वृत्तिः साम्प्रतमुपलभ्यते ।
अत्रापि टीका-प्रटीकादिकं प्रभूतं वाङ्मयं जेसलमेर-पत्तन(पाटण)-खम्भातादिनगरस्थेषु जैनग्रन्थभाण्डागारेषु तालपत्रोपरि कागजपत्रोपरि च लिखितं विद्यते । ___ तत्रत्यान् कतिपयग्रन्थानवलम्ब्य दुर्गसिंहविरचितवृत्त्या सह अस्माभिरस्य संशोधनं प्रारब्धमस्ति । यथासमयं तस्यापि प्रकाशनं कर्तुं समीहामहे।
जैनग्रन्थभाण्डागारस्थहस्तलिखितादर्शानुसारं क्वचित् क्वचित् पाठभेदेन सह कातन्त्रव्याकरणमूलसूत्राणि इह उपन्यस्यते । पाटणस्थे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे (डा०१२८ नं०३७६२) विद्यमाने एकस्मिन् कातन्त्रव्याकरणसूत्रपाठादिपुस्तके प्रतिप्रकरणं प्रतिपादं च प्रारम्भे सुभाषितरूपाः श्लोकाः केनचिल्लेखकेन लिखिताः सन्ति । न ते कातन्त्र्यव्याकरणस्यांशाः, केवलमानन्ददायका इत्येव अस्माभिरत्र ते [ ] एतादृशे चतुरस्रकोष्ठके उपन्यस्ताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org