________________
१०७
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य
अथ पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि । हा० पृ० ४७ पं. ५, पृ० ६२७ पं० ११ । “द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् । .... तदेवमुलूकप्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाणबाधितत्वाच्च । ...जं सविसय - इत्यादिना गाथापश्चार्धन हेतुमाह- यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् ॥” इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ ३।४९।
अस्या गाथाया उत्तरार्धे उभयोरपि स्थानयोः हा० मध्ये निरवेक्खो इति पाठो हस्तलिखितादर्शेषु वर्तते, इति ध्येयम् ।
हा० पृ० ४७ पं० ५, पृ० ६२७ पं० ९-१२ । “यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति; जैनसाधवस्तु परस्परं स्वाधाराच्च कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम्, कणादवदिति; तथाहि- द्वाभ्यामपि द्रव्य-पर्यास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २१९४-२१९५ ॥
चू० पृ० १२८, हा० पृ०१८७ । अत्र चू० मध्ये समाणा इति पाठः, हा० मध्ये समाणे इति पाठः, किन्तु समाणा इति पाठः समीचीनतरो भाति ।
चू०हा०हे० पृ० २७३,२७४ । “आगमउदनुबन्धः स्वरादन्त्यात् परः ।२।१६। प्रकृतिप्रत्यययोरनुपघाती आगम उच्यते । आगम उदनुबन्धोऽन्त्यात् स्वरात् परः परिभाष्यते । पद्यानि । पयांसि । ... उदनुबन्ध आगमस्य लिङ्गम् । .... एदोत्परः पदान्ते लोपमकारः ।१२।२७। एदोद्भ्यां परोऽकारः पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र । पटोऽत्र । ... द्विवचनमनौ ।।३।२। द्विवचनान्तं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति, औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते। माले इमे । .... अनौभूतमिति किम् ? तावत्र । .... समानः सवर्णे दीर्धीभवति परश्च लोपमापद्यते ।१।२।१। समानसंज्ञको वर्णः सवर्णे परे दीर्घाभवति, परश्च लोपमापद्यते । दण्डाग्रम् । साऽऽगता । .... .. धुट्स्वराद् घुटि नुः ।२।२।११। धुटः पूर्वः स्वरात् परो नपुंसकलिङ्गस्य घुटि परे नुरागमो भवति । पद्मानि । पयांसि। ... ... इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृत्तौ ॥
___ सू० पृ० ३०२ पं० ३ । अस्य सर्वस्य स्वरप्रकरणस्य तुलना अभयदेवसूरिविरचितवृत्तिसहितस्य स्थानाङ्गसूत्रस्य सप्तस्थानके तृतीये उद्देशके विद्यमानेन स्वरप्रकरणेन सह कर्तव्या ॥
हे० पृ० ३४८ । “सप्तमीपञ्चम्यन्ते जनेर्डः ।४।३।९१। सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाजने? भवति । जले जातं जलजम् । सरसि जातं सरसिजम् ।... " इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृतौ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org