Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 469
________________ ११५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पण एवं कथयति, तस्य च कथयतः तेऽपि गणधरादयः निशामयन्ति शृण्वन्ति, तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः । " - आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २१४८ तमीयं गाथा । "सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥२१७९॥ जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् जाणण त्ति ज्ञानं ज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । विरइ त्ति विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । मीसं वत्ति मीसा व त्ति पाठान्तरं च, तत्र मिश्रं विरताविरतम्, मिश्रा वा विरत्यविरतिर्देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्महावीरः परिकथयति तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतॄणां परिणमतीति । ....... ॥ २१७९ ॥” इति विशेषावश्यकभाष्यस्यश्रीमलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ । हे० पृ० ६१६ पं० ४ । “ तापयतीति तपः, तपः प्रधानः संयमस्तपः संयमः, असौ अनुमतः अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्गन्थम् आर्हतमिति भावना । किम् ? प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, ववहारो त्ति एवं व्यवहारो व्यवस्थितः । व्यवहारग्रहणाच्च तदधोवर्तिनैगम-संग्रहनयद्वयमपि गृहीतं वेदितव्यम् । ततश्चैतदुक्तं भवति - नैगम - संग्रह - व्यवहारास्त्रिविध सामायिकं मोक्षमार्गतयानुमन्यन्ते तपः संयमग्रहणाच्चारित्रसामायिकम्, प्रवचनग्रहणात् श्रुतसामायिकम् चशब्दात् सम्यक्त्वसामायिकम् । आह- यद्येवं किमिति मिथ्यादृष्टयः ? उच्यते यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचाराद् निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घ्यादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः । एतदुक्तं भवति - ऋजुसूत्रादयः सर्वे चारित्रसामायिकमेव मोक्षमार्गत्वेनाऽनुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात् । तथाहि - समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । " आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २३६१ तमीयं गाथा ॥ हे० पृ० ६१६ पं० ६ । " जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं । सो पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ [ आवश्यकनि०७९२, विशेषावश्यकभा० २६४३] जीव आत्मा गुणैः प्रतिपन्नः आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खलु औपचारिकाः नयस्य द्रव्यार्थिकस्य सामायिकमिति, वस्तुत आत्मैव सामायिकम्, गुणास्तु तद्व्यतिरेकेणाऽनवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना । स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थतो यस्माज्जीवस्य एष गुण इति उत्तरपदप्रधानत्वात् तत्पुरुषस्य यथा तैलस्य धारेति, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति । तस्माद् गुणः सामायिकम् " - आवश्यकहारिभद्री । हे० पृ० ६१६ पं० ७ । “सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च । दुविहं व चरितं अगारमणगारियं चेव ॥ [ आवश्यकनि० ७९६, विशेषावश्यकभा० २६७३ ], सामायिकं प्राग्निरूपितशब्दार्थम्, चः पूरणे, त्रिविधं त्रिभेदम्, सम्यक्त्वम् अनुस्वारलोपात् श्रुतं तथा चारित्रम्, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकम् द्विविधमेव चारित्रं मूलभेदेन..... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560