Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 471
________________ ११७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि हे० प्र० ६१७ पं०९। “सम्यक्त्व-देशविरतिमन्तः ...... क्षेत्रपल्योपमस्यासंख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः । जघन्यतस्त्वेकः । अष्टौ भवा: चारित्रे, चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिद्ध्यतीति..... अनन्तकालः अनन्तभवरूपः, तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यतस्त्वेकभवमेव मरुदेवीवेति गाथार्थः ।” - आवश्यकहारिभद्री। विशेषावश्यकभा० २७७९ ॥ __ हे० पृ० ६१७ पं० १३ । “आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । तत्र त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्रपृथक्त्वम्, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः । जघन्यतस्त्वेक एवेति गाथार्थः । त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्राणि असंख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः । एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-दोण्ह सहस्समसंखा, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकनान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासंख्येयभागतुल्याः । ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसंख्येयानीति । सहस्रपृथक्त्वं चेत्थं भवति- विरतेः खल्वेकभवे शतपृथक्त्वम् आकर्षाणामुक्तम्, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः।।"- आवश्यकहारिभद्री ८५७-८५८ । विशेषावश्यकभाष्ये २७८०-२७८१ ॥ हे० पृ० ६१७ पं० १९ । “सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वलोकं स्पृशन्ति, किं बहिर्व्याप्त्या ? नेत्याह- निरवशेषमसंख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्तु असंख्येयभागमिति । तथा सत्त य चोहसभागे पंच सुय देसविरईए त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति अनुत्तरसुरेषु इलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दश भागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः चशब्दाद् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥८५९॥..... ..... 'सम्यक्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थानामिति गम्यते । मोहनं मोहः, वितथग्रहः, न मोहः अमोहः, अवितथग्रहः । शोधनं शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः। सत् जिनाभिहितं प्रवचनम्, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः सद्भावदर्शन मिति। बोधनं बोधिरिति औणादिक इत्, परमार्थसम्बोध इत्यर्थः । अतस्मिंस्तदध्यवसायो विपर्ययः, न विपर्ययो-ऽविपर्ययः तत्त्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायां शोभना दृष्टिः सुदृष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ।" - आवश्यकहारिभद्री ८५९, ८६१ । विशेषावश्यकभाष्ये २७८२, २७८४ । हे० पृ० ६१८ पं० १३ । “उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति ।" इति तत्त्वार्थभाष्ये ५।२९॥ हे० पृ० ६२३ पं० ७-१० । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नामस्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । सुत्तफासियेत्यादि, वक्ष्यमाणं प्रायोग्रहणमत्रापि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560