________________
११७
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि
हे० प्र० ६१७ पं०९। “सम्यक्त्व-देशविरतिमन्तः ...... क्षेत्रपल्योपमस्यासंख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः । जघन्यतस्त्वेकः । अष्टौ भवा: चारित्रे, चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिद्ध्यतीति..... अनन्तकालः अनन्तभवरूपः, तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यतस्त्वेकभवमेव मरुदेवीवेति गाथार्थः ।” - आवश्यकहारिभद्री। विशेषावश्यकभा० २७७९ ॥
__ हे० पृ० ६१७ पं० १३ । “आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । तत्र त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्रपृथक्त्वम्, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः । जघन्यतस्त्वेक एवेति गाथार्थः । त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्राणि असंख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः । एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-दोण्ह सहस्समसंखा, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकनान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासंख्येयभागतुल्याः । ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसंख्येयानीति । सहस्रपृथक्त्वं चेत्थं भवति- विरतेः खल्वेकभवे शतपृथक्त्वम् आकर्षाणामुक्तम्, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः।।"- आवश्यकहारिभद्री ८५७-८५८ । विशेषावश्यकभाष्ये २७८०-२७८१ ॥
हे० पृ० ६१७ पं० १९ । “सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वलोकं स्पृशन्ति, किं बहिर्व्याप्त्या ? नेत्याह- निरवशेषमसंख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्तु असंख्येयभागमिति । तथा सत्त य चोहसभागे पंच सुय देसविरईए त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति अनुत्तरसुरेषु इलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दश भागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः चशब्दाद् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥८५९॥..... ..... 'सम्यक्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थानामिति गम्यते । मोहनं मोहः, वितथग्रहः, न मोहः अमोहः, अवितथग्रहः । शोधनं शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः। सत् जिनाभिहितं प्रवचनम्, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः सद्भावदर्शन मिति। बोधनं बोधिरिति औणादिक इत्, परमार्थसम्बोध इत्यर्थः । अतस्मिंस्तदध्यवसायो विपर्ययः, न विपर्ययो-ऽविपर्ययः तत्त्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायां शोभना दृष्टिः सुदृष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ।" - आवश्यकहारिभद्री ८५९, ८६१ । विशेषावश्यकभाष्ये २७८२, २७८४ ।
हे० पृ० ६१८ पं० १३ । “उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति ।" इति तत्त्वार्थभाष्ये ५।२९॥
हे० पृ० ६२३ पं० ७-१० । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नामस्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । सुत्तफासियेत्यादि, वक्ष्यमाणं प्रायोग्रहणमत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org