________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११८ संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनिर्युक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००९-१०१० ॥
हे० पृ० ६२३ पं० १४ । “तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा, सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः; तथा, सूत्रस्पर्शिका नियुक्तिनियुक्त्यनुगमतृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००१ ॥
हा० पृ० ६२८ पं० ९-१२ । “वा-अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः ? सत्स्वपि बहुषु वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन् मुञ्चति । कुतः ? स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? । लोकव्यवहारमिच्छन् । कया ? व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २२२०२२२१ ।।
__हा० पृ० ६३० पं० १८, हे० पृ० ६३८ पं० ५। "पढमं नाणमित्यादि, प्रथमम् आदौ ज्ञानं जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत् प्रवृत्तेः, एवम् अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयत: सर्वप्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति ? छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति ।" इति दशवैकालिकसूत्रे ४।१०।।
हा० पृ० ६३१ पं० १९।" चैत्यकुलगणसङ्ग्रेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ? तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि अर्हत्प्रतिमालक्षणानि, कुलं विद्याधरादि, गण: कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, ..... प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपम्, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते।"- आवश्यकहारिभद्री ११०१ ॥
___ हा० पृ० ६३१, पं० २३, हे० पृ० ६३९ पं० ११ । “सुबह्वपि श्रुतमधीतं चरणविप्रहीणस्य अज्ञानमेव, अतस्तस्य फलशून्यत्वादकिञ्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोट्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः ।" - इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ११५२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org