SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ११९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि __ हे० पृ० ६३६ पं० २३ । “अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गाः - हेतवो नयाः तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते ॥” इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ ।३।४७|| हे पृ० ६३८ पं० ६ । “जं अन्नाणी कम्म, खवेइ बहुयाहिँ वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ॥११७०॥ यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्तमानो बह्वीभिर्वर्षकोटीभिः कर्म क्षपयति 'तत्' कर्म ज्ञानी 'त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छ्वासमात्रेणापि कालेन क्षपयति ॥११७०॥" इति बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचितायां वृत्तौ ।। हे० पृ० ६३८ पं० १५ । “गीयत्थो गीतार्थानां विहारः विहरणमुक्तम् । बिइतो गीयत्थमीसिओ द्वितीयो विहारः द्वितीयं विहरणं गीतार्थमिश्रं गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो नोक्तो जिनवरैः।" इति ओघनिर्युक्तेोणाचार्यविरचितायां वृत्तौ १२१ ।। __ हे० पृ० ६३९ पं० १३ । “ज्ञानं प्रक्रान्तं स्वविषये नियतं स्वविषयनियतम्, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः । अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, सचेष्टः सव्यापारः अचेष्टश्च अप्रतिपद्यमानचेष्टश्च । एतदुक्तं भवति- यथा कश्चित् पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्च इष्टदेशप्राप्तिलक्षणं कार्यं गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसापि कालेन तत्प्रभावादेव । एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो ज्ञानप्रभावादेव । तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ।।११४३॥.... .... .... .... जाननपि च तरीतुं य: काययोगं कायव्यापार न युङ्क्ते नद्यां स पुमान् उह्यते ह्रियते स्रोतसा पयः प्रवाहेण एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादम्रोतसोह्यते इत्युपनयः ।" - आवश्यकहारिभद्री ॥ हे० पृ० ६३९ पं० १७ । “जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो भारस्स भागी न हु सोग्गईए ॥ [आवश्यकनि० १००, विशेषावश्यकभा० ११५८] गमनिका- यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी, न तु नैव सुगतेः सिद्धिदयिताया इति गाथार्थः ।" - आवश्यकहारिभद्री ॥ तुलना- 'यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद् वहन्ति ॥१॥४४॥” इति सुश्रुतसंहितायाम् ।। हे० पृ० ६४१ पं० ४-७ । विशेष्यावस्यकभाष्येऽपीदं गाथाद्वयं वर्तते ११६०, ११६५ ॥ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानश्चान्धकः ।। संयोगसिद्ध्या फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धश्च पॉश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ इति संस्कृते छाया॥ हे० पृ० ६४१ पं० १३, १९ । “आह- ननु भवत्प्रतिपादितन्यायेन प्रत्येकावस्थायां ज्ञानक्रिययोनिर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम्, सिकतासमुदाये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy