________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि
१२०
तैलवत् । अत्र प्रयोगः - इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम्, प्रत्यक्षविरुद्धत्वात्; तथाहि मृत्-तन्तु चक्र - चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञानक्रियासमुदायात् प्रादुर्भूतिरविरुद्धैवेति ॥ न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संयोग एव ज्ञान-क्रिययोः कार्यसिद्धिः ॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ११६३-११६४ ॥
हे० पृ० ६४२ पं०१ । “ज्ञानाधीनमेव सर्वमैहिकामुष्मिकं सुखम्, किमत्र क्रियया कर्तव्यम् ? युक्तिश्चेहानन्तरमेव वक्ष्यते । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तेरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भति । उभयग्राहश्चेह सम्यक्त्वं स्थितपक्ष इति ॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ३५९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org