SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११६ अगारो गृहस्थः, तस्येदमागारिकम् । इदं चानेकभेदं देशविरतेश्चित्ररूपत्वात् । अनगारः साधुः, तस्येदमानगारिकं चैव” - आवश्यकहारिभद्री ॥ हे० पृ० ६१६ पं० ९ । “जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ [आवश्यकनि० ७९७, विशेषावश्यकभा० २६७९], यस्य सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, आत्मा जीवः क्व ? संयमे मूलगुणेषु नियमे उत्तरगुणेषु तपसि अनशनादिलक्षणे तस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, इति केवलिभिर्भाषितमिति गाथार्थः ॥" - आवश्यकहारिभद्री॥ हे० पृ० ६१६ पं० १० । “खेत्तदिसाकालगइभवियसण्णिऊसासदिट्ठिमाहारे । पजत्तसुत्तजम्मट्ठितिवेयसण्णाकसायाऊ ॥ [आवश्यकनि० ८०४, विशेषावश्यकभा० २६९२], क्षेत्रदिक्-काल-गति-भव्य-संज्ञि-उच्छ्वास-दृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयम्, किं क्व सामायिकम् ? इति योगः, तथा पर्याप्त-सुप्त-जन्म-स्थिति-वेद-संज्ञा-कषाया-ऽऽयूंषि चेति ॥"-आवश्यकहारिभद्री। हे० पृ० ६१६ पं० १३ । “अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ? तत्र सर्वगतं सम्यक्त्वम्, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा श्रुते श्रुतसामायिके चारित्रे चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्,..... देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना ॥८३०॥" - आवश्यकहारिभद्री। विशेषावश्यकभा० २७५१ ॥ हे० पृ० ६१६ पं० १९ । “सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः । ...... शेषयोः देशविरति-सर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, उक्कोस त्ति उत्कृष्टस्थितिकालः ।" आवश्यकहारिभद्री ८४९ । विशेषावश्यकभा० २७६१ ।। हे० पृ० ६१६ पं० २२ । “सम्यक्त्व-देशविरताः प्राणिनः क्षेत्रपलितस्यासंख्येयभागमात्रा एव। इयं भावना- क्षेत्रपलितासंख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति... सेढीअसंखभागो सुए त्ति संवर्तितचतुरस्रीकृतलोकैकप्रदेशनिर्वृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसंख्येयभागे इति तस्याः खल्वसंख्येयभागे यावन्तः प्रदेशास्तावन्तः एव एकदोत्कृष्टतः सामान्यश्रुते... प्रतिपत्तारो भवन्तीति... सहस्सग्गसो विरई सहस्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः ।” - आवश्यकहारिभद्री। विशेषावश्यकभा० २७६४ ॥ ___ हे० पृ० ६१७ पं० १। “एकं जीवं प्रति कालोऽनन्त एव ... श्रुते सामान्यतोऽक्षरात्मके उक्कोसं अंतरं होइ त्ति योगः ।.... उपार्धपुद्गलपरावर्त एव देशोनः, किम् ? उत्कृष्टमन्तरं भवतीति योगः, केषाम् ? आशातनाबहुलानाम् ।" - आवश्यकहारिभद्री । विशेषावश्यकभा० २७७५ । पृ० ६१७ पं० ५। "सम्यक्त्व-श्रुता-ऽगारिणां सम्यक्त्वश्रुत-देशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसंख्येयभागमात्राः समया इति । तथा अष्टौ समया: चारित्रे निरन्तरं प्रतिपत्तिकाल इति । सर्वेषु सम्यक्त्वादिषु जघन्यः अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ।" - आवश्यकहारिभद्री । विशेषावश्यकभा० २७७७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy