________________
११५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पण
एवं कथयति, तस्य च कथयतः तेऽपि गणधरादयः निशामयन्ति शृण्वन्ति, तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः । " - आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २१४८ तमीयं गाथा । "सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥२१७९॥ जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् जाणण त्ति ज्ञानं ज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । विरइ त्ति विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । मीसं वत्ति मीसा व त्ति पाठान्तरं च, तत्र मिश्रं विरताविरतम्, मिश्रा वा विरत्यविरतिर्देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्महावीरः परिकथयति तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतॄणां परिणमतीति । ....... ॥ २१७९ ॥” इति विशेषावश्यकभाष्यस्यश्रीमलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ।
हे० पृ० ६१६ पं० ४ । “ तापयतीति तपः, तपः प्रधानः संयमस्तपः संयमः, असौ अनुमतः अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्गन्थम् आर्हतमिति भावना । किम् ? प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, ववहारो त्ति एवं व्यवहारो व्यवस्थितः । व्यवहारग्रहणाच्च तदधोवर्तिनैगम-संग्रहनयद्वयमपि गृहीतं वेदितव्यम् । ततश्चैतदुक्तं भवति - नैगम - संग्रह - व्यवहारास्त्रिविध सामायिकं मोक्षमार्गतयानुमन्यन्ते तपः संयमग्रहणाच्चारित्रसामायिकम्, प्रवचनग्रहणात् श्रुतसामायिकम् चशब्दात् सम्यक्त्वसामायिकम् । आह- यद्येवं किमिति मिथ्यादृष्टयः ? उच्यते यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचाराद् निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घ्यादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः । एतदुक्तं भवति - ऋजुसूत्रादयः सर्वे चारित्रसामायिकमेव मोक्षमार्गत्वेनाऽनुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात् । तथाहि - समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । " आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २३६१ तमीयं गाथा ॥
हे० पृ० ६१६ पं० ६ । " जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं । सो पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ [ आवश्यकनि०७९२, विशेषावश्यकभा० २६४३] जीव आत्मा गुणैः प्रतिपन्नः आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खलु औपचारिकाः नयस्य द्रव्यार्थिकस्य सामायिकमिति, वस्तुत आत्मैव सामायिकम्, गुणास्तु तद्व्यतिरेकेणाऽनवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना । स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थतो यस्माज्जीवस्य एष गुण इति उत्तरपदप्रधानत्वात् तत्पुरुषस्य यथा तैलस्य धारेति, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति । तस्माद् गुणः सामायिकम् " - आवश्यकहारिभद्री । हे० पृ० ६१६ पं० ७ । “सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च । दुविहं व चरितं अगारमणगारियं चेव ॥ [ आवश्यकनि० ७९६, विशेषावश्यकभा० २६७३ ], सामायिकं प्राग्निरूपितशब्दार्थम्, चः पूरणे, त्रिविधं त्रिभेदम्, सम्यक्त्वम् अनुस्वारलोपात् श्रुतं तथा चारित्रम्, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकम् द्विविधमेव चारित्रं मूलभेदेन.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org