________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११४
हा० पृ० ६१४ पं० ४। “वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात्।"- पाणिनीयव्याकरणसिद्धान्तकौमुदी ॥
हे० पृ० ६१५ पं० ११ । “वैशाखशुद्धैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामिति भावार्थः. महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य । परंपर सेसं ति शेषं क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति ।"- आवश्यकहारिभद्री ।
हे० पृ० ६१५ पं० १४ । “गोयममाई सामाइयं तु किंकारणं निसामिति । नामस्स तं तु सुंदर-मंगुलभावाण उवलद्धी ॥७४५॥ गौतमादयो गणधराः किंकारणं तु किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिकं निशामयन्ति शृण्वन्ति, अत्रोच्यते- नाणस्स त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय ज्ञानार्थम्, तादर्थ्य चतुर्थी, तेषां हि भगवद्वदननिर्गतं सामायिकं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते इति भावना। तत्तु ज्ञानं सुन्दर-मगुलभावानां उवलद्धि त्ति उपलब्धये उपलब्धिनिमित्तमिति गाथार्थः ॥"- आवश्यकहारिभद्री । “गौतमादयो गणधराः किंकारणं किंनिमित्तं किंप्रयोजनं सामायिकं निशमयन्ति शृण्वन्ति इत्याह-नाणस्स त्ति विभक्तिव्यत्ययाच्चतुर्थीह द्रष्टव्या, सा च तादर्थ्य, ततश्च ज्ञानार्थ ज्ञानायेत्यर्थः, तेषां भगवद्वदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावः । तत्तु ज्ञानं सुन्दरमङ्गुलभावानां शुभा-ऽशुभपदार्थानामुपलब्धये उपलब्धिनिमित्तं भवति । तस्याश्च शुभा-ऽशुभपदार्थोपलब्धेः सकाशात् शुभेषु प्रवृत्तिः इतरेभ्यस्तु निवृत्तिर्भवति ॥२१२५॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
हे० पृ० ६१५ पं० १९ । “केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति । तेषामपि श्रोतॄणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययः अवबोधः सर्वज्ञ इत्येवंभूतो भवति...... ततः संजातप्रत्यया निशामयन्ति शृण्वन्तीति गाथार्थः ।" आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २१३२ तमीयं गाथा । “अत एव केवलज्ञानी अहम्' इति स्वकीयादेव केवललक्षणाद् भावप्रत्ययादर्हन् साक्षादेव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या सर्वज्ञ इति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात् सर्वज्ञप्रत्ययात् ते निशमयन्ति शृण्वन्ति सामायिकम् ।....... ॥२१३२॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ।
हे० पृ० ६१५ पं० २३ । “सद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए । ते वि निसामिति तहा चउलक्खणसंजुयं चेव ॥७५३।। इह सामायिकं चतुर्विधं भवति, तद्यथासम्यक्त्वसामायिकम्, श्रुतसामायिकम्, चारित्रसामायिकम्, चारित्राचारित्रसामायिकं च । अस्य यथायोगं लक्षणम् - सद्दहणं ति श्रद्धानं लक्षणमिति योगः सम्यक्त्वसामायिकस्य । जाणण त्ति ज्ञानं ज्ञा संवित्तिरित्यर्थः । सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः । विरति त्ति विरमणं विरतिः अशेषसावद्ययोगनिवृतिः, सा च चारित्रसामायिकस्य लक्षणम् । मीसा य त्ति मिश्रा विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणम्, कथयतीत्यनेन स्वमनीषिकापोहेन शास्त्रपारतन्त्र्यमाह । भगवान् जिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org