________________
११३
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि
कालिकम् । न नयाः समवतरन्ति अत्र प्रतिपदं न भण्यन्त इति भावना । आह- व पुनरमीषां समवतारः ? अपुहत्ते समोतारो अपृथग्भावोऽपृथक्त्वं चरण-धर्म-संख्या-द्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन् नयानां विस्तरेण विरोधा-ऽविरोध-संभव-विशेषादिना समवतारः । नत्थि पुहत्ते समोतारो, नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवतार्यन्त इति गाथार्थः ॥७६२॥" - आवश्यकहारिभद्री ॥
हे० पृ० ५९२ पं० २० । “मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचारं सम्प्रति श्रुतम्, अतो नयप्रमाणे नाऽस्यावतार इति ॥९४९॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
___ हे० पृ० ५९३ पं० ७ । “यतः परसमय उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद् विषयविभागेन व्यवस्थापनात्, ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यतापि श्रूयते तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ।।९५३॥" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
हे० पृ० ६१३ पं० ७ । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते ॥१००९॥ सुत्तप्फासियेत्यादि वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तेर्नियोगो व्यापारः, स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥१०१०॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
हा० पृ० ६१३ पं० १२ । “एवं सुत्ताणुगमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥१००१॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा सूत्रालापकगतश्च निक्षेपः निक्षेपद्वारतृतीयभेदः, तथा सूत्रस्पर्शिका नियुक्तिः निर्युक्त्यनुगमतृतीयभेदः, तथा नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ॥१००१॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥
हा० पृ० ६१३ पं० १८ । “आदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः। सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः । ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः। स बन्धः [८।३] इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छब्देन परामर्शः । विधिविधानं भेदः । तस्य विधयः तद्विधयो बन्धभेदा इति।.... कृत्स्नकर्मक्षयो मोक्षः।८।३। कृत्स्नं संपूर्ण निरवशेषं... कर्म, तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ।" इति सिद्धसेनसूरिविरचितायां तत्त्वार्थवृत्तौ ॥
हा० पृ० ६१३ पं० २२ । “धम्मो मंगलमुक्किटं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ॥१॥ ..... धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा अपि तं नमस्यन्ति · यस्य धर्मे सदा मनः" - दशवैकालिकहारिभद्री ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org