________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि
णानि
११२
सप्तविंशत्यधिके कोशत्रिकं त्रीणि गव्यूतानि ३, अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुलम् १३ १ इति ॥८॥” इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥
हा०हे० पृ० ५७५, ५७६, ५७७ । “संति पंच महन्भूया इहमेगेसिमाहिया । पुढवी आउ तेऊ वा वाउ आगासपंचमा ॥१७॥ सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वविशेषणम् । अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम् । इह अस्मिन् लोके एकेषां भूतवादिनाम् आख्यातानि प्रतिपादितानि तत्तीर्थकृता.... तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशं सुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा...
"एए पंच महब्भूया तेब्भो एगो त्ति आहिया । अह तेसिं विनासेणं विनासो होति देहिणो ॥११८॥ लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते.... यथा चैतत् तथा दर्शयितुमाहएए पंच महन्भूया इत्यादि । एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तः ..... जीवाख्यः पदार्थोऽस्ति इत्येवमाख्यातवन्तस्ते.... अथ.... तेषामन्यतमस्य विनाशे अपगमे.... देहिनो देवदत्ताख्यस्य विनाशः अपगमो भवति ।" इति शीलाङ्काचार्यविरचितायां सूत्रकृदङ्गवृत्तौ ॥
हे० पृ० ५९२ पं० ९-१४ । “अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यत् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यत्, तस्मात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ॥९४५॥ साम्प्रतं प्रमाणमभिधित्सुराह- द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्वैध्याच्च प्रमाणमपि चतुर्विधम्-द्रव्यप्रमाणम्, क्षेत्रप्रमाणम्, कालप्रमाणम्, भावप्रमाणं चेति द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदमध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । ....... ९४६॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
हे पृ० ५९२ पं० १६ । “नत्थि नएहिं विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उसोयारं नए नयविसारओ बूया॥७६१॥ नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः। अशेषनयप्रतिषेधस्तु आचार्य-विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिम्, तुशब्दः पुनःशब्दार्थे, नयान् नयविशारदो गुरुर्ब्रयादिति गाथार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । “सूत्रमर्थो वा नास्ति जिनमते नयैर्विहीनं किञ्चिदपि । तथाप्याचार्य-शिष्याणां मतिमान्द्यापेक्षया सर्वनयविचारनिषेधः कृतः। विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयादिति नियुक्तिगाथार्थः ॥२२७७॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
__ हे० पृ० ५९२ पं० १८, पृ० ६१६ पं० १ । “मूढा नया यस्मिन् तद् मूढनयम्, तदेव मूढनयिकम्, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः, तेऽस्मिन् विद्यन्ते - 'अत इनि-ठनौ' [पा०५।१।११५] इति मूढनयिकं श्रुतं कालिकं तु कालिकमिति काले प्रथमचरमपौरुषीद्वये पठ्यत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org