________________
१११
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि
यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः तीर्थकृद्भिः प्रतिपादिताः। एतदुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रम् असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥
हा०हे० पृ० ५१४ पं० ५,२४ । “गाथेयं प्रायो निगदसिद्धैव । चालना-प्रत्यवस्थानमात्रं त्वभिधीयते, कश्चिदाह- अर्थोऽनभिलाप्यः तस्य अशब्दरूपत्वात्, अतस्तं कथमसौ भाषते इति ? उच्यते- शब्द एवार्थप्रत्यायनकार्यत्वात् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि । निपुणं सूक्ष्म बह्वर्थं च, नियतगुणं वा निगुणं सन्निहिताशेषसूत्रगुणमिति यावत् । पाठान्तरं वा- गणहरा निपुणा निगुणा वा॥” इति आवश्यकस्य हारिभत्र्यां वृत्तौ ।
___ “अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बह्वर्थं चेत्यर्थः । अथवा नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रनन्ति । ततः शासनस्य हितार्थ प्रवर्तते ही नियुक्तिगाथाक्षरार्थः ॥१११९॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
हा० पृ० ५१४ पं० १२ । “कायेन निवृत्तः कायिकः, तेन कायिकेन योगेन योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम् । सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति । ... गृह्णाति कायिकेनैव । निसृजति उत्सृजति मुञ्चतीति पर्यायाः । तथा इति आनन्तर्यार्थः, उक्तिर्वाक्, वाचा निर्वृत्तो वाचिकः, तेन वाचिकेन योगेन” इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥ ___“सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । ... तथेति ग्रहणानन्तरमित्यर्थः, ...... वाचिकेन योगेन निसृजति...... इति नियुक्तिगाथासंक्षेपार्थः ।।३५५॥ इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ ____ हा० पृ० ५१६ पं० १७,हे० पृ० ५१७ पं० १८ । “स्पृष्टमिति आलिङ्गितं तनौ रेणुवत् शृणोति गृह्णाति उपलभत इति पर्यायाः। कम् ? शब्द्यतेऽनेनेति शब्दः, तं शब्दप्रायोग्यं द्रव्यसंघातम् । इदमत्र हृदयम्तस्य सूक्ष्मत्वाद् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपम्, तद् रूपं पुनः पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । “श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति, कथंभूतमित्याह-स्पृश्यत इति स्पृष्टः, तं स्पृष्टं तनौ रेणुवद् आलिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते ।...... चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह- रूवं पुण पासइ अपुढे त्विति । रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति। ..... इति नियुक्तिगाथार्थः ॥३३६॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ हे० पृ० ५५७ पं० १८ । “जम्बूद्वीपस्य परिधिः तिम्रो लक्षा: षोडश सहस्त्राणि द्वे शते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org