Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 472
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११८ संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनिर्युक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००९-१०१० ॥ हे० पृ० ६२३ पं० १४ । “तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा, सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः; तथा, सूत्रस्पर्शिका नियुक्तिनियुक्त्यनुगमतृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००१ ॥ हा० पृ० ६२८ पं० ९-१२ । “वा-अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः ? सत्स्वपि बहुषु वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन् मुञ्चति । कुतः ? स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? । लोकव्यवहारमिच्छन् । कया ? व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २२२०२२२१ ।। __हा० पृ० ६३० पं० १८, हे० पृ० ६३८ पं० ५। "पढमं नाणमित्यादि, प्रथमम् आदौ ज्ञानं जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत् प्रवृत्तेः, एवम् अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयत: सर्वप्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति ? छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति ।" इति दशवैकालिकसूत्रे ४।१०।। हा० पृ० ६३१ पं० १९।" चैत्यकुलगणसङ्ग्रेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ? तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि अर्हत्प्रतिमालक्षणानि, कुलं विद्याधरादि, गण: कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, ..... प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपम्, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते।"- आवश्यकहारिभद्री ११०१ ॥ ___ हा० पृ० ६३१, पं० २३, हे० पृ० ६३९ पं० ११ । “सुबह्वपि श्रुतमधीतं चरणविप्रहीणस्य अज्ञानमेव, अतस्तस्य फलशून्यत्वादकिञ्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोट्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः ।" - इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ११५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560