Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 467
________________ ११३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि कालिकम् । न नयाः समवतरन्ति अत्र प्रतिपदं न भण्यन्त इति भावना । आह- व पुनरमीषां समवतारः ? अपुहत्ते समोतारो अपृथग्भावोऽपृथक्त्वं चरण-धर्म-संख्या-द्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन् नयानां विस्तरेण विरोधा-ऽविरोध-संभव-विशेषादिना समवतारः । नत्थि पुहत्ते समोतारो, नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवतार्यन्त इति गाथार्थः ॥७६२॥" - आवश्यकहारिभद्री ॥ हे० पृ० ५९२ पं० २० । “मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचारं सम्प्रति श्रुतम्, अतो नयप्रमाणे नाऽस्यावतार इति ॥९४९॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ हे० पृ० ५९३ पं० ७ । “यतः परसमय उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद् विषयविभागेन व्यवस्थापनात्, ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यतापि श्रूयते तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ।।९५३॥" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे० पृ० ६१३ पं० ७ । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते ॥१००९॥ सुत्तप्फासियेत्यादि वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तेर्नियोगो व्यापारः, स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥१०१०॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हा० पृ० ६१३ पं० १२ । “एवं सुत्ताणुगमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥१००१॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा सूत्रालापकगतश्च निक्षेपः निक्षेपद्वारतृतीयभेदः, तथा सूत्रस्पर्शिका नियुक्तिः निर्युक्त्यनुगमतृतीयभेदः, तथा नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ॥१००१॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ हा० पृ० ६१३ पं० १८ । “आदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः। सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः । ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः। स बन्धः [८।३] इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छब्देन परामर्शः । विधिविधानं भेदः । तस्य विधयः तद्विधयो बन्धभेदा इति।.... कृत्स्नकर्मक्षयो मोक्षः।८।३। कृत्स्नं संपूर्ण निरवशेषं... कर्म, तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ।" इति सिद्धसेनसूरिविरचितायां तत्त्वार्थवृत्तौ ॥ हा० पृ० ६१३ पं० २२ । “धम्मो मंगलमुक्किटं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ॥१॥ ..... धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा अपि तं नमस्यन्ति · यस्य धर्मे सदा मनः" - दशवैकालिकहारिभद्री ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560