Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
११५६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५
हणं भवति, एतेन प्रथम - चरमभङ्गौ सूचितौ । कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात् प्राप्तै गलादीनि ग्रहीतव्यानि, अनेन तु द्वितीय-तृतीयभङ्गौ गृहीताविति ॥ ४२६२ ॥ तान्येव डगलादीनि दर्शयति
डगल-ससरक्ख-कुंड मुह- मत्तगतिग-लेव- पादलेहणिया । संथार-पीढ - फलगा, णिजोगो चैव दुगुणो तु ॥ ४२६३ ॥
इष्टका-चीरादिमयानि डगलानि पुतप्रोञ्छनार्थं गृह्यन्ते । सरजस्कः - क्षारः, स संज्ञा- खेलादिनिसर्जनार्थम् । कुटमुखं - घटकण्ठकः, तत्र ग्लानयोग्य मौषधं कायिकीमात्रकं वा स्थाप्यते । मात्रकत्रिकं - खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति । लेपः - प्रतीतः, स विनष्टभाजनसंस्थापनार्थम् । पादलेखनिका वर्षासु कर्दमनिर्लेखनार्थम् । संस्तारकः परिशाटी अपरिशाटी 10 चेति द्विविधः, उभयोऽपि शयनार्थं जीवादिरक्षणार्थं च गृह्यते । पीठं - छगणादिमयम्, उपवेशनार्थम् । फलकः - चम्पकपट्टा दिमयः, शयनोपयोगी । पात्रसत्कश्च 'निर्योगः ' प्रत्यवतारो द्विगुणः । एतानि सर्वाण्यपि तदानीं गृह्यन्ते ॥ ४२६३ ॥ अथ शिष्यः प्रश्नयतिचचारि समोसरणे, मासा किं कप्पती ण कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मलगादीणं ॥ ४२६४ ॥
आषाढ पूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा ? | सूरिराह — उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपत्रिं डगलादीनि च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चभ्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक-डगलादीनि गृह्णन्ति, दशम्यां पर्युषणयन्ति । विशेषचूर्णिकृत् पुनराह - ताणं अलं आसाढपुण्णिमाए चेव ठिया, तेहि य उवही न गहिओ संथारगाई ता जाव पंचरतं ताव गेव्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहंति, दसमीए पज्जोसवेंति, एएण कारणेणं कप्पइ पंचरतं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वति [ जाव भद्दवयसुद्धपंचमी ] चि ।
20
5
15
एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि - 25 तावद् मन्तव्यानि यावद् भाद्रपद शुद्धपञ्चम्यां गृहीतेऽगृहीते वा डगल- मल्लकादौ नियमात् पर्युषणं विधेयम् ॥ ४२६४ ॥
तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादीसु ।
लेवाईण अगहणे, लहुगा पुत्रि अगहिते वा ।। ४२६५ ।।
'तेषां' साधूनां 'तत्र' वर्षाक्षेत्रे स्थितानामियं सामाचारी — सभा - प्रपा -ऽऽराम - देवकुल- शून्य- 30 गृहादिषु यद् वस्त्रम् 'उत्सुद्धं' पथिकादिभिः परित्यक्तं तत् प्रत्युपेक्षन्ते यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं
"
१ योगी । पते सर्वेऽपि प्रथमतः क्षेत्रबहिर्गृह्यन्ते । अथ बहिर्न गृहीतास्ततः क्षेत्र एव गृह्यन्ते भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444