Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१२८६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २९
तद्यथा-इक्कडमये कठिनमये च संस्तारके लघुमासः, पीठ-फलकेषु चत्वारो मासा लघवः, काष्ठे कलिञ्चे क्षारे मल्लकादिषु च पञ्चकम् ॥ ४७८८ ॥ सूत्रम्
से अणुकुड्डेसु वा अणुभित्तीसु वा अणुचरियासु वा अणुफरिहासु वा अणुपंथेसु वा अणुमेरासु वा स चेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठइ अहालंदमवि
उग्गहे २९॥ अस्य सम्बन्धमाह
जे चेव दोनि पगता, सागारिय-रायउग्गहा होति ।
तेसिं इह परिमाणं, णिवोग्गहम्मी विसेसेणं ॥ ४७८९ ॥ __ यावेव द्वौ सागारिक-राजावग्रही पूर्वसूत्रयोः प्रकृती तयोरेवेह सूत्रे परिमाणमुच्यते । तत्रापि नृपावग्रहे परिमाणं विशेषेणाभिधीयते ॥ ४७८९ ।।
अनेन सम्बन्धेनायातस्यास्य व्याख्या-"से" तस्य निर्ग्रन्थस्य 'अनुकुड्येषु वा' कुड्यसमीपवर्तिषु वा प्रदेशेषु, एवमनुभित्तिषु वा अनुचरिकासु वा अनुपरिखासु वा अनुपथेषु वा 16 अनुमर्यादासु वा । अत्र चरिका-नगर-प्राकारयोरपान्तराले हस्ताष्टकप्रमाणो मार्गः, परिखा
खातिका, मर्यादा-सीमा, शेषं प्रतीतम् । एतेषु सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमपि कालमवग्रह इति सूत्रार्थः ।। अथ नियुक्तिविस्तरः
अणुकुडे भित्तीसु, चरिया-पागारपंथ-परिहासु ।
अणुमेरा सीमाए, णायव्वं जं जहिं कमति ॥ ४७९० ॥ 20 अनुशब्दः प्रत्येकमभिसम्बध्यते, अनुकुड्या-ऽनुभित्त्योरनुचरिका-प्राकारपथ-परिखासु च,
"अणुमेरा सीमाए" ति मर्यादा-सीमा, ततो अनुमर्यादायामनुसीमायामित्येकोऽर्थः । एतेषु ज्ञातव्यं यद् यत्र सागारिक-राजाद्यवग्रहानुज्ञापनं क्रमते ॥ ४७९० ॥ एनां नियुक्तिगाथां व्याख्यानयति
अणुकुडं उवकुड्डे, कुड्डसमीवं व होइ एगहुँ । 28 एमेव सेसएसु वि, तेसि पमाणं इमं होइ ॥ ४७९१ ॥ ____ अनुशब्दस्य समीपार्थद्योतकत्वादनुकुड्यमुपकुड्यं कुड्यसमीपमिति वैकार्थम् । एवमेव 'शेषेष्वपि' अनुभित्त्यादिषु पदेषु मन्तव्यम् । तेषाम्' अनुकुड्यादीनामवग्रह विषयमिदं प्रमाण भवति ॥ ४७९१ ॥
वति-भित्ति-कडगक. पंथे मेराय उग्गहो रयणी । अणुचरियाए अट्ठ उ, चउरो रयणीउ परिहाए । ४७९२ ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444