Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 434
________________ भाष्यगाथाः ४८३९-४५ ] तृतीय उद्देशः । ऊर्द्धदिग् अधोदिक् “तिरियं पि य" त्ति तिर्यक् - पूर्व-दक्षिणा - ऽपरोत्तरालक्षणाश्चतस्रो दिशः, एतासु षट्सु दिक्षु गिरिमार्गे स्थितानां सर्वतः सक्रोशं योजनं क्षेत्रं भवति, तच्च इन्द्रपदादिषु सम्भवति । इन्द्रपदो नाम - गजाग्रपदगिरिः, तत्र ह्युपरिष्टाद् ग्रामो विद्यते अधोsपि ग्रामो मध्यमश्रेण्यामपि ग्रामः । तस्याश्च मध्यम श्रेण्याश्चतसृष्वपि दिक्षु ग्रामाः सन्ति, ततो मध्यमश्रेणिग्रामे स्थितानां षट्सु दिक्षु क्षेत्रं भवति । आदिशब्दाद् अन्योऽपि य ईदृशः 5 1 पर्वतस्तस्य परिग्रहः । शेषेषु पर्वतेषु चतसृषु पञ्चसु वा दिक्षु सक्रोशं योजनं क्षेत्रं भवति ॥ ४८४१ ॥ समभूमिकायां व्याघाताभावे दिचतुष्टये क्षेत्रम्, व्याघातं प्रतीत्य पुनरित्थम् - एगं व दो व तिन्निव, दिसा अकोसं तु सव्वतो वा वि । सव्वत्तो तु अकोसे, अग्गुञ्जाणाओं जा खेत्तं ॥ ४८४२ ॥ एकदिग्भाविना पर्वतादिव्याघातेन किञ्चिद् ग्रामादिकमेकस्यां दिशि अक्रोशं भवति, सक्रो- 10 शयोजनावग्रहरहितमित्यर्थः । एवं दिग्द्वयभाविना व्याघातेन द्वयोर्दिशोरकोशम्, त्रिदिग्भाविना तिसृषु दिक्षु, दिकतुष्टयभाविना तु सर्वतोऽप्यकोशं भवति । तत्र च सर्वतोऽक्रोशे ग्रामादौ अग्रोद्यानं यावत् क्षेत्रम्, ततः परमक्षेत्रमिति ॥ ४८४२ ॥ किञ्च – संजम - आयविराहण, जत्थ भवे देह उवहितेणा वा । तं खलु ण होइ खेत्तं, उग्वेयव्वं च किं तत्थ ॥ ४८४३ ॥ 15 यत्र ग्रामादौ प्राप्तानां संयमा - ऽऽत्मविराधना भवति, यत्र च देहोपधिस्तेना भवन्ति तत् खलु क्षेत्रं न भवति । किं वा तत्रावग्रहीतव्यं येन क्षेत्रमुच्येत ! ॥ ४८४३ ॥ अथ किं पुनः क्षेत्रम् ? इत्याह खेत्तं चलमचलं वा, इंदमणिदं सकोसमको सं । वाघातम्मि अकोर्स, अडवि जले सावए तेणे ॥ ४८४४ ॥ यत्रावग्रहो विचारयितुमुपक्रान्तस्तत् क्षेत्रं चलमचलं वा भवेत् चलं व्रजिकादि, अचलं ग्रामादि । पुनरेकैकं द्विधौ – 'ऐन्द्रम्' इन्द्रकीलादियुक्तम् 'अनिन्द्रं वा' तद्विपरीतम् । तत्र यदचलमनिन्द्रं च तत् सकोशमकोशं वा । पश्चानुपूर्व्या अमूनेव भेदान् व्याचिख्यासुरिदमाह – “ वाघायम्मि" इत्यादि, यत्र यस्यां दिशि व्याघातस्तत् तस्यामकोशं भवति । कः पुनर्व्याघातः ? इति चेद् अत आह— अटवी तस्यां दिशि वर्तते, "जलं" ति समुद्रो नदी 25 वा तत्राssस्ते, 'श्वापदा वा' सिंह- व्याघ्रादयः तत्र सन्ति, 'स्तेना वा' उपधि-शरीरहरा विद्यन्ते । एतैः कारणैः सा दिग् निरुद्धा, ग्राम- गोकुलाद्यभावादवग्रहीतव्यं किमपि तत्र नास्ति ॥ ४८४४॥ अथ सक्रोशमाह - - Jain Education International १२९९ सेसे सकोस मंडल, मूलनिबंधं अणुम्मुयंताणं । पुट्ठिताण उग्गहों, सममंतरपल्लिगा दोहं ॥। ४८४५ ॥ शेषं नाम - यद् अनन्तरोक्तव्याघातरहितं तत्र मूलनिबन्धं मण्डलममुञ्चतां सर्वतः सक्रोशं योजनमवग्रहो भवति । कथम् ? इति चेद् उच्यते - मूलग्रामादेकैकस्यां दिशि योजनार्द्धमर्द्ध १ 'सास को°ताभा० ॥ २ तन्त्रं ताभा० ॥ ३ 'धा - इन्द्रयुक्तमनिन्द्रं वा । तत्र भा० ॥ For Private & Personal Use Only 20 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444