Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१२९८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रह प्रकृते सूत्रम् ३१ बाह्याश्च साधवो द्वारस्थस्याने कारणं दीपयन्ति । आभ्यन्तरा ब्रुवते-अस्माकं साधवो बहिर्निर्गताः बहिश्च रुद्धाः; बाह्या ब्रुवते-वयं कारणे भिक्षायां बहिर्निर्गता परं द्वाराणि निरुद्धानि । 'इतरथा' यदि न कथयन्ति ततः अकाले-रात्रौ वा विकाले वा यद्यवस्कन्दः-धाटी तदादीनि भवन्ति तदा चारिकशङ्का भवेत्ये साधवो निर्गतास्ते भूयो न प्रविष्टाः, नूनं चारिकास्ते 6 आगता आसीरन्निति ॥ ४८३८॥
बाहिं तु वसिउकामं, अतिणेती पेल्लणा अणेच्छंते ।
गुरुगा पराजय जये, वितियं रुद्धे व वोच्छिण्णे ॥ ४८३९ ॥ बहिर्निर्गतानां कोऽप्येकश्चिन्तयेत् -मुक्तोऽस्मि तावत् चारकवासात्, न भूयः प्रविशामि; अत्र सूत्रमवतरति । एवं बहिर्वसन्तं प्रज्ञापयन्ति-आर्य ! सूत्रे प्रतिषिद्धम् , न वर्तते बहि10वस्तुम् , द्वयोर्जिन-राजाज्ञयोरतिक्रमः कृतो भवति । एवं प्रज्ञाप्य नगरं प्रवेशयन्ति । अथ
नेच्छति प्रवेष्टुं ततः "पेल्लण" ति बलामोटिकया शेषैः स प्रवेशनीयः । यदि न प्रवेशयन्ति ततश्चत्वारो गुरुकाः । कदाचिदाभ्यन्तराणां पराजयोऽपरेषां च जयो भवेत् ततः 'एभिर्भेदः प्रदत्तः' इति शङ्कया प्रस्तारदोषा भवेयुः । द्वितीयपदमत्र भवति-बहिर्निर्गतस्य सर्वतोऽपि नगरं निरुद्धम् , गमागमः सर्वथैव व्यवच्छिन्न इति कृत्वा तत्रापि वसन् शुद्धः ॥ ४८३९ ।।
॥ सेनाप्रकृतं समाप्तम् ॥
20
अ व ग्रह प्र मा ण प्र कृ त म् सूत्रम्
से गामंसि वा जाव सन्निवसंसि वा कप्पइ निग्गं. थाण वा निग्गंथीण वा सबओ संमंता सकोसं
जोयणं उग्गहं ओगिणिहत्ताण चिट्ठित्तए ३१ ॥ अस्य सम्बन्धमाह__ गामाइयाण तेसिं, उग्गहपरिमाणजाणणासुत्तं ।
कालस्स व परिमाणं, वुत्तं इहइं तु खेत्तस्स ॥४८४०॥ 'तेषाम्' अनन्तरसूत्रोक्तानां ग्रामादीनां कियानवग्रहो भवति ? इति शङ्कायामवग्रहपरिमाण25 ज्ञापनार्थमिदं सूत्रमारभ्यते । यद्वा पूर्वसूत्रेषु "अहालंदमवि उग्गहे" इत्यादि भणताऽवग्रह विषयं कालस्य परिमाणमुक्तम् , इह तु क्षेत्रस्य तदेवोच्यते ॥ ४८४० ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा नगरे वा यावत् सन्निवेशे वा कल्पते निम्रन्थानां वा निम्रन्थीनां वा 'सर्वतः' सर्वासु दिक्षु 'समन्तात्' चतसृष्वपि विदिक्षु सक्रोशं
योजनमवग्रहमवगृह्य स्थातुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः30
उड्डमहे तिरियं पि य, सकोसर्ग होइ सव्वतो खेतं । इंदपदमाइएमुं, छदिसि सेसेसु चउ पंच॥ ४८४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444