Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
15
१३००
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रह ० प्रकृते सूत्रम् ३१
क्रोशेन समधिकं तावदवग्रहो भवति, स च पूर्वा ऽपराभ्यां दक्षिणोत्तराभ्यां वा कृत्वा सक्रोशं योजनं भवति, यद्वो गति - प्रत्यागतिभ्यामेकस्यामपि दिशि [ सक्रोशं ] योजनं मन्तव्यम् । तत्र सक्रोशे अक्रोशे वा ये पूर्वस्थितास्तेषामवग्रहो भवति । यत्र समकमनुज्ञापितं तत् क्षेत्रं साधारणम् । अथ सम्बद्धेषु क्षेत्रेषु समकमेवानुज्ञापितं ततो यदि द्वे अन्तरपल्लिके तत एकेषामेका अपरेषामप्येका । अथैकैवान्तरपल्लिका ततो द्वयोरपि साधारणा ।। ४८४५ ॥ अथ बह्रयस्तत्रान्तरपल्लिकास्ततः को विधि: : इत्याह
खेत्तस्संतो दूरे, आसण्णं वा ठिताण समगं तु !. अर्द्ध अद्धद्धं वा, दुगाइसाहारणं होइ ।। ४८४६ ॥
द्वित्रिप्रभृतिषु सम्बद्धेषु क्षेत्रेषु समकमनुज्ञाप्य स्थितानां काश्चिदन्तर पल्लिकाः 'क्षेत्रान्तः ' 10 क्षेत्रस्याभ्यन्तरे भवन्ति, "दूरे" त्ति काश्चित्तु दूरे याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं भवतीति कृत्वा प्रथमालिकायां तद् निर्वाह्यते, "आसन्ने" त्ति काश्चित् पुनरासन्ने याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं न भवति । ततो यावन्त्यस्ता अन्तरपल्लिकास्तासां सर्वासामप्यर्द्धवा, अर्द्धार्द्ध वा चतुर्थभाग इत्यर्थः, वाशब्दात् त्रिभागादिकं वा द्विकादीनां - द्वित्रिप्रभृतीनां गच्छानां साधारणं भवति ॥ ४८४६ ॥ अथात्रैवाभाव्या-ऽनाभाव्यविधिमाहतण- डगल-छार-मल्लग-संथारग भत्त- पाणमादीणं ।
सति लंभे अस्सामी, खेत्तिय ते मोत्तऽणुण्णवणा ।। ४८४७ ।। तृण-डगल-क्षार-मल्लक-संस्तारक - भक्त - पानादीनां 'सति' विद्यमाने प्राचुर्येण लाभे क्षेत्रिका अखामिनः, अक्षेत्रिकाणामप्येतान्याभवन्तीत्यर्थः । " ते मोत्तऽणुण्णवण" त्ति येषां तृणादीनां क्षेत्रकैरनुज्ञापना कृता तानि मुक्तत्वा, तान्यक्षेत्रिकाणां नाभवन्तीति भावः ॥ ४८४७ ॥ किं पुनः क्षेत्रिकाणामाभवति ? इत्युच्यते-
20
-
ओहो उवग्गो विय, सच्चित्तं वा वि खेत्तियस्सेते ।
मोत्तूण पाडिहारिं, असंथरंते वऽणुण्णवणा ॥ ४८४८ ॥
"
घोपधिरुपग्रहोपधिश्च 'सचित्तं वा' शैक्षादिकम् एतानि क्षेत्रिकस्याभवन्ति । यद्यक्षेत्रिका एतेषामेकतरं गृह्णन्ति तदा प्रायश्चित्तम्, परं मुक्त्वा प्रातिहारिकं द्विविधमप्युपधिम्, 25 तं गृहस्थेभ्यो मार्गयन्तो न प्रायश्चित्तभाज इति हृदयम् । यः पुनरप्रातिहारिकस्तं न लभन्ते । अथ शीतादिना परिताप्यन्ते तत एवमसंस्तरद्भिर्वस्त्रादेरनुज्ञापना कर्तव्या । क्षेत्रिकैरपि संस्तरणे तेषामनुज्ञातव्यम् ॥ ४८४८ ॥
जइ पुर्ण संथरमाणा, ण दिति इतरे व तेसि गिण्हति ।
तिविधं आदेसो वा, तेण विणा जा य परिहाणी ।। ४८४९ ।।
30 यदि पुनः संस्तरन्तः क्षेत्रिका असंस्तरतामक्षेत्रिकाणां वस्त्रादिकं न प्रयच्छन्ति, 'इतरे वा ' अक्षेत्रिकाः संस्तरन्तोऽपि 'तेषां' क्षेत्रिकाणामनापृच्छया बलामोटिकया वा गृह्णन्ति ततः 'त्रिविधं ' जघन्य-मध्यमोत्कृष्टनिष्पन्नं पञ्चक- मासलघु-चतुर्लघुलक्षणं प्रायश्चित्तम्, सूत्रस्यादेशाद्वा नवमम् ।
Jain Education International
१ “एवं गति-प्रत्यागविना सकोसं जोयणं भवति" इति चूर्णौ विशेषचूर्णौ च ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444