Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१३०६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रह प्रकृते सूत्रम् ३१ आपृष्टः, ताभ्यां चोभयोरांप वितीर्णम्-अनुज्ञापितं ततो येन कृतं नातिक्रभ्यते तेन यस्मै प्रदत्तं तस्यावग्रहः । अथ द्वावप्यनतिक्रमणीयौ ततो द्वयोरपि साधारणं क्षेत्रम् । अथ द्वावप्येकत्र मिलितावनुज्ञापिती ततो येन पूर्वमनुज्ञापितस्तस्यावग्रह इति ॥ ४८७२ ॥
इंतं महल्लसत्थं, डहरागों पडिच्छए ण ते पभुणो ।
तुरियं वा आधावति, भएण एमेव अस्सामी ।। ४८७३ ॥ महल्लं-बृहत्तरं कमपि सार्थमागच्छन्तं 'डहरकः' लघुतरः सार्थः प्रतीक्षते ततो ये लघुतरसार्थवासिनः साधवस्ते नावग्रहस्य प्रभवः । यो वा सार्थों भयेन त्वरितं बृहत्तरसार्थमिलनायाधावति तत्रापि ये साघवस्ते 'एवमेव' अस्वामिनः, बृहत्तरसार्थवासिन एवावग्रहस्य खामिन इति भावः ॥ ४८७३ ॥
अडवीमज्झम्मि णदी, दुग्गं वा एत्थ दो वि वसिऊणं ।
वोलेहामों पभाए, णिस्सा साधारणं कुणइ ॥ ४८७४ ॥ द्वौ सार्थावेकत्र मिलितौ परस्परमित्थं निश्रां कुरुतः, यथा-यदिदमटवीमध्ये नदी दुर्ग वा विद्यते अत्र द्वयेऽपि जना रात्रावुषित्वा प्रभाते 'वोलयिष्यामः' पुरतो गमिष्यामः इति
परस्परसाधारणां निश्रां यत्र कुरुतस्तत्र सचित्तादिकं सर्वमपि साधारणम् ।। ४८७४ ॥ 15 गतं सार्थद्वारम् । अथ सेनाद्वारमाह
सेणाएँ जत्थ राया, अणोग्गहो जत्थ वा पविहो सो।
सेसम्मि उग्गहो जो, गमो उ वइगाएँ सो इहई ।। ४८७५ ।। 'यत्र' यस्यां सेनायां राजा भवति तत्रावग्रहो न भवति । 'यत्र वा' ग्रामादौ क्षेत्रे 'सः' राजा प्रविष्टस्तत्र यद्यप्यन्ये साधवः पूर्वस्थिताः सन्ति तथापि यावन्तं कालं स तत्रास्ते तावन्ना20 वग्रहः । शेष नाम-यत्र ग्रामादौ राजा न प्रविष्टो या वा मुण्डसेना अराजका इत्यर्थः तत्रावग्रहो भवति परं तत्र यो व्रजिकायां गम उक्तः स इहापि मन्तव्यः ॥ ४८७५ ।। गतं सेनाद्वारम् । अथ संवर्तद्वारमाह
नागरगो संवट्टो, अणोग्गहो जत्थ वा पविट्ठो सो ।
सेसम्मि उग्गहो जो, गमो उ सत्थम्मि सो इहई ॥ ४८७६ ॥ 25 नागरकः' नगरसम्बन्धी संवतः 'अनवग्रहः' न तत्रावग्रहो भवति । 'यत्र वा' ग्रामादौ स नागरकः संवतः प्रविष्टस्तत्रापि नावग्रहः । शेषः-ग्रामेयकसंवतस्तत्रावग्रहो भवति परं य एव सार्थे गम उक्तः स एवेह द्रष्टव्यः ॥ ४८७६ ॥ ॥ इति कल्पाध्ययनटीकायां तृतीय उद्देशकः परिसमाप्तः॥
॥ ग्रन्थानम्-३३८२५ ॥ चूर्णीवचोभिः फलकैः सुयोजितैर्गुरुप्रतिष्ठानयुतैः ससूत्रकैः ।
तृतीयकोद्देशकवारिधिं सतां, तरी तरीतुं विवृतिः कृता मया ॥ १ ग्रन्थानम्-२५०० भा० । ग्रन्थानम्-८६०६ का० । ग्रन्थानम्-३१०० डे० ॥ २°तिष्ठेदृढसूत्रगुम्फितैः । तृती° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 439 440 441 442 443 444