Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ४८०४-१२]
तृतीय उद्देशः ।
१२९१
यमानैर्व्याघातो यद्वा तत्र प्राशुकप्रदेशो न लभ्यते ततो बहिर्वसन्तो यतो धाटिभयं तं भूभागं वर्जयित्वा वसन्ति । अथ तत्र श्वापद्भयं ततो यस्यां दिशि वातस्तां वर्जयन्ति । येन च परचक्रभयेन तत्र संवर्ते प्रविष्टास्तस्मिन् प्राप्ते सर्वमुपकरणं गुपिले प्रदेशे स्थापयित्वा स्वयमेकतो - ऽन्यत्र प्रदेशेऽपावृताः कायोत्सर्गेण तिष्ठन्ति स्तेनरक्षणार्थं च वारकेण रजनीं सकलामपि जाते ॥ ४८०८ ॥ अथ कस्मादपावृतास्तिष्ठन्ति ? इत्याह
――――
जिणलिंगमप्पडिहयं, अवाउडे वा वि दिस्स वज्रंति ।
थं भणि-मोहणिकरणं, कडजोगे वा भवे करणं ॥ ४८०९ ॥ अचेलतालक्षणं जिनलिङ्गमप्रतिहतम्, एवंस्थितानां न कोऽप्युपद्रवं करोतीति भावः । अथवा ते स्तेना अपावृतान् दृष्ट्वा स्वयमेव वर्जयन्ति, स्तम्भनी- मोहनी विद्याभ्यां वा तेषां स्तम्भन - मोहने कुर्वन्ति । यो वा 'कृतयोगः' सहस्रयोधी तेन तादृशे आकम्पे गच्छसंरक्षणार्थं 10 'करणं' शिक्षणं तेषां विधेयम् ॥ ४८०९ ॥ गतं संवर्त्तद्वारम् । अथ नगररोधकद्वारमाहसंवट्टणिग्गयाणं, पियट्टणा अट्ठ रोह जयणाए ।
वसही - भट्टणया, थंडिल्लविचिणा भिक्खे ॥ ४८१० ॥
ये मासकल्पप्रायोग्यात् क्षेत्रान्निर्गत्य संवर्ते स्थितास्ते संवर्त्तनिर्गता उच्यन्ते तेषां तत्र स्थितानामवस्कन्दादिभयेन भूयोऽपि संवर्ताद् नगरं प्रति निवर्तना भवति । यद्वा ग्लाना दिभिः 15 कारणैः प्रथममेव नगरान्न निर्गतास्ततो नगरे वसतामष्टौ मासान् रोधके यतनया वस्तव्यं भवति । सा च यतना वसति-भक्तार्थन - स्थण्डिलविवेचन - भैक्षविषया कर्त्तव्या ॥ ४८१० ॥ तत्र वसतियतनां तावदाह
हाणी जावेकट्ठा, दो दारा कडग चिलिमिणी वसभा ।
तं चैव एगदारे, मत्तग सुवणं च जयणाए ॥ ४८११ ॥
20
रोधके तिष्ठद्भिरष्टौ वसतयः प्रत्युपेक्षणीयाः, तासु प्रत्येकमृतुबद्धे मासं मासमासितव्यम् । अष्टानामलाभे सप्त, एवं हान्या तावद् वक्तव्यं यावत् संयतानां संयतीनां च "एगट्ट" चि एकैव वसतिर्भवति । तत्रैकस्यां वसतौ स्थितानां द्वे द्वारे भवतः, अपान्तराले कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति । अथ द्वारद्वयं न भवति तत एकद्वारेऽपि तमेव विधिं कुर्वन्ति । कायिकाभूमेश्चाभावे मात्रकेण यतन्ते, यतनया च स्वपनं कुर्वन्तीति नियुक्तिगाथासमा- 25 सार्थः ॥ ४८११ ॥ अथ भाष्यकार एनामेव विवृणोति -
Jain Education International
5
रोहेउ अड्ड मासे, वासासु सभूमि तो णिवा जंति ।
परबलरुद्धे वि पुरे, हाविंति ण मासकप्पं तु ॥ ४८१२ ॥
अष्टौ ऋतुबद्धिकान् मासान् 'रोधयित्वा' रोधं कृत्वा ततो वर्षासु नृपाः 'स्खभूमिम्' आत्मीयराज्यभुवं गच्छन्ति । साधवश्व रोधके वसन्तः परबलरुद्धेऽपि पुरे मासकल्प न हाप - 30 यन्ति किन्तु तत्र प्रथमत एवाष्टौ वसतयोऽष्टौ भिक्षाचर्याः प्रत्युपेक्षणीयाः ॥ ४८१२ ॥
अथाष्टौ न प्राप्यन्ते ततः
१ 'थममेवाष्टौ कां० ॥
-
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444