Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनियुक्ति-लधुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २८ इदाणि राउग्गहमग्गणा उ, केणं विदिण्णो स कया कहं वा ॥ ४७७७॥ 'सागारिकी' सागारिकसत्का तावदियमवग्रहमार्गणा प्रकृता । 'स च' सागारिकावग्रहः कियन्तं कालं कथं वा भवति ? इत्येतत् पूर्वसूत्रे 'व्याकृतं' व्याख्यातम् , “मो" इति पादपूरणे, इदानीं तु राजावग्रहस्य उपलक्षणत्वाद् देवेन्द्रावग्रहस्य च मार्गणा क्रियते, यथा-केन 5 कदा कथं वाऽसौ 'वितीर्णः' अनुज्ञातः ? इति ॥ ४७७७ ॥ __ अनेन सम्बन्धेनायातस्यास्य व्याख्या--"से" तस्य निर्ग्रन्थस्य 'वास्तुपु' गृहेषु 'व्यापृतेषु' व्यापारयुक्तेषु वहमानकेष्वित्यर्थः 'व्याकृतेषु' दायादादिभिर्विभक्तेषु 'परपरिगृहीतेषु' अन्यवंशीयैरधिष्ठितेषु 'भिक्षुभावस्यार्थाय' भिक्षुभावो नाम-ज्ञान-दर्शन-चारित्राणि तृतीयव्रतादिकं
वा, तत्रैव भिक्षुशब्दस्य परमार्थत्वेन रूढत्वात् , स भिक्षुभावः परिपूर्णो भूयादित्येवमर्थ ये 10 साधवः पश्चादागच्छन्ति तैर्द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः स्याद् 'यथालन्दमपि' जघन्यलन्दमात्रमपि कालमवग्रहे तत्रावस्थान इति सूत्रार्थः ॥ अथ भाष्यविस्तरः
अणव ट्ठिया तहिं होंति उग्गहा रायमादिणो चउरो।
पासाणम्मि व लेहा, जा तित्थं ताव सकस्स ॥ ४७७८ ॥ इह देवेन्द्रावग्रहादयः पञ्चावग्रहाः, 'तत्र' तेषां पञ्चानां मध्ये 'राजादयः' राज-गृहपति-सा15 गारिक-सार्धर्मिकसम्बन्धिनश्चत्वारोऽवग्रहा अनवस्थिता भवन्ति, भूयोभूयः परावर्तन्त इत्यर्थः । शक्रस्य पुनरवग्रहः पापाण इव रेखा यावत् तीर्थ तावदेकवारमनुज्ञापितः सन्ननुवर्तते ॥४७७८॥
अथ यदुक्तम् "इयाणि राउग्गहमग्गणा उ, केणं विदिन्नो स कया कहं व" ति ( गा० ४७७७) तदेतन्निर्वाहयितुमाह
सोऊण भरहराया, सबिड्डी आगतो जिणसगासं ।
वंदिय नमंसिया णं, भत्तेण निमंतणं कुणइ ॥ ४७७९ ॥ अष्टापदे समवसृतं श्रीऋषभस्वामिनं श्रुत्वा भरतराजः साधूनामर्थाय पञ्च शकटशतानि भक्त-पानभृतानि गृहीत्वा सर्वा जिनसकाशमागतः । ततो भगवन्तं 'वन्दित्वा' स्तुत्वा 'नमस्कृत्य' शिरसा प्रणम्य भक्तेन साधूनां निमन्त्रणं करोति ॥ ४७७९ ॥ भगवानाह--
पीलाकरं वताणं, एयं अम्हं न कप्पए घेत्तुं । 25 अणवजं णिरुवहयं, भुंजंति य साहुणो भिक्खं ॥ ४७८० ॥
आधाकर्मा-ऽभ्याहृत-राजपिण्डदोषदुष्टतथा व्रतानां पीडाकरमेतदस्माकम् , अतो न कल्पते ग्रहीतुम् । यतः 'अनवद्यां' प्राशुकां 'निरुपहताम्' एषणीयां साधवो भिक्षां भुञ्जते, नापाशुकामनेषणीयां वा ॥ ४७८० ॥
तं वयणं सोऊणं, महता दुक्खेण अदितो भरहो । [आव.नि. ४२५]
समणा अणुग्गहं मे, ण करिति अहो ! अहं चत्तो ॥ ४७८१ ॥ १°धर्मिकाख्याश्चत्वा भा० ॥ २ भा० विनाऽन्यत्र-वन्तमभिवन्द्य वन्दित-नमस्कृतानां' स्तुत-प्रणतानां साधूनां भक्तेन निम का० । वन्तमभिवन्द्य वन्दित-नमस्कृतानां भक्तेन निम ताटी. मो० डे• ॥ ३ अभिहतो ताभा० ॥
20
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444