Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 407
________________ १२७२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ विपरिणामितः -विवक्षिताचार्यादुचारितो भावो यम्य र विपरिणामितभावः, एवंविधः शैक्षो न लभ्यते, विपरिणामकस्य नाभवतीति भावः । शिष्यः प्राह-'तमेव' विपरिणामनं तावद् वयं न विजानीमः । सूरिराह—यत एवं भवतो जिज्ञासा तस्माद् विपरिणामनं विपरिणामितं तस्य कथना-प्ररूपणा कर्त्तव्या भवति ॥ ४७२८ ॥ तामेवाह दिट्टमदिट्ट विदेसत्थ गिलाणे मंदधम्म अप्पसुते।। णिप्फत्ति णत्थि तस्सा, तिविहं गरहं व से जणति ॥४७२९ ॥ शैक्षः कमप्याचार्यमभिधार्य गच्छन् मार्गे कमपि साधुं दृष्ट्वा पृच्छति-अमुके आचार्या भवद्भिः कदाचिद् दृष्टाः ? उताहो न दृष्टाः ?; एवं पृष्टे स साधुर्विपरिणामनबुद्ध्या भणतिकिं तैः करिष्यसि ?; शैक्षः प्राह-प्रव्रजितुकामोऽहं तेषां समीपे; एवं श्रुत्वा साधुदृष्टानपि 10 तान् 'न मया दृष्टाः' इति, अथवा खदेशस्थानपि भणति 'विदेशस्थास्ते' । एवमग्लानानपि 'ग्लानोऽसौ, ब्रज त्वमपि तस्य द्वितीयः'; अथवा ब्रवीति-यस्तस्य पार्थे प्रव्रजति सोऽवश्यं ग्लानो ग्लानवैयावृत्ये वा नित्यं व्याप्तो भवति । अथवा मन्दधर्माणस्ते, ततः किं तव मन्दधर्मता रोचते? । यद्वाऽसावल्पश्रुतः, त्वं च ग्रहण-धारणासमर्थस्तस्य पार्श्वे गतः किं करिष्यसि ?, त्वमेव वा तं पाठयिष्यसीति । अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति, यं 15 प्रव्राजयति स सर्वोऽपि प्रतिभज्यते म्रियते वेति । 'त्रिविधां वा' मनो-वाक्-कायभेदाद ज्ञानदर्शन-चास्त्रिभेदाद् वा त्रिप्रकारां गहीं वक्ष्यमाणरीत्या यदसौ करोति सा विपरिणामना मन्तव्या । एनां कुर्वतश्चतुर्गुरुकम् , न च तं शैक्षं लभते, अतो नैवं कथनीयम्, किन्तु दृष्टादिपदेषु सद्भावः कथनीयः ॥ ४७२९ ॥ कथम् ! इत्याह जइ पुण तेण ण दिट्ठा, णेव सुया पुच्छितो भणति अण्णे । 20 जति वा गया विदेसं, तो साहइ जत्थ ते विसए ॥४७३०॥ योऽसौ शैक्षेण पृष्टस्तेन यदि ते सूरयो न दृष्टाः नैव श्रुतास्ततः पृष्टः सन् भणति-अहं न जानामि, 'अन्यान्' अपरान् साधून पृच्छ । अथ जानाति ततो यथावत् कथनीयम् । यदि विदेशं गतास्ततो यत्र ‘विषये' देशे ते वर्चन्ते तं कथयति । अथ नाल्याति हीनाधिकं वाऽऽख्याति ततो विपरिणामना भवति ।। ४७३० ।।। सेसेसु उ सम्भावं, णातिक्खति मंदधम्मवजेसु । गृहयते सम्भावं, विप्परिणति हीणकहणे वा ॥ ४७३१ ॥ 'शेषेषु' ग्लानादिषु पदेषु मन्दधर्मवर्जेषु सद्भावं नाख्याति, यद्यप्यसौ ग्लानोऽल्पश्रुतो वा शिष्यनिष्पत्तिर्वा तस्य नास्ति तथापि तन्न कथनीयम् । यस्तु मन्दधर्मा पार्श्वस्थादिस्तत्र सद्भावः कथनीयः, मा संसारपारगन्तुकामः सुतरां संसारे पतिष्यतीति कृत्वा । यस्तु ज्ञान-दर्शन-चारि30त्र-तपःसम्पन्नो वादी धर्मकथी सङ्ग्रहोपग्रहकारी तद्विषयं सद्भावं यदि 'गूहयति' अपलपति हीनकथनं वा करोति, अधिकमप्यन्याचार्येभ्यो हीनं कृत्वा कथयतीत्यर्थः, एषा विपरिणामना मन्तव्या ॥ ४७३१ ॥ अथ त्रिविधां गहाँ व्याचिख्यासुस्तत्वरूपं तावदाह१°नपि ग्लानानसौ वक्ति, 'बज मो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444