Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 405
________________ 10 १२७० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ रिणाम्येत, अवसन्नविहारिषु वा प्रव्रजेत् , अन्यतीर्थको वा भवेत् ; अतो वर्षावासं मुक्त्वा 'इतरथा' पुष्टालम्बनं विना सङ्गारो न प्रतीच्छनीयो न वा कर्त्तव्यः ॥ ४७१८ ॥ किमर्थं पुनः सङ्गारमसौ करोति ? इत्याह संखडि सण्णाया वा, खित्तं मोत्तव्ययं व मा होजा। ____एएहिँ कारणेहिं, संगार करेंतें चउगुरुगा ॥ ४७१९ ॥ सङ्कर्डिस्तत्र ग्रामे उपस्थितानां परिहत्तुं न शक्नोति, सज्ञातका वा तस्य तत्र भूयांसंस्तेषामाग्रहात् तदानीं न शक्नोति गन्तुम् , क्षेत्रं वा तदतीवस्निग्ध-मधुराहारादिलाभसम्पन्नं शैक्षस्य च तत्र सागारिकम् अतस्तद् मोक्तव्यम् मा भूत् , 'एतैः' एवमादिभिः कारणैः शैक्षस्य सङ्गारं यः करोति तस्य चतुर्गुरु ॥ ४७१९ ॥ अथ गृहस्थाः किमर्थ सङ्गारं कुर्वन्ति ! इत्याह रिण वाहिं मोक्खेउ, कुडुंब वित्तिं वतिच्छिते गिम्हे । एमादिअणाउत्ते, करिति गिहिणो उ संगारं ॥ ४७२०॥ ऋणं वा व्याधि वा 'मोक्षयितुम्' अपनेतुम् , कुटुम्बस्य वा पश्वान्निर्वहणयोग्यां वृत्ति सम्पादयितुम् , यद्वा ग्रीष्मस्तदानीमतिक्रान्तो वर्षावास आयातः, एवमादिभिः कारणैः अना युक्ते-अक्षणिकतायां गृहिणः सङ्गारं कुर्वन्ति ॥ ४७२०॥ 15 अथ द्वितीयपदेन सङ्गारे प्रतीप्यमाणे आभाव्यविधिमाह अगविट्ठो मिति अहं, लब्भति असढेहि विप्परिणतो वि । चोयंतऽप्पाहेति व, ते वि य णं अंतरा गंतुं ॥४७२१॥ सनारे कृते यदि 'अशठैः' ग्लानादिकार्यव्यापृतैः स शैक्षो न गवेषितस्तदाऽसौ 'अगवेषितः' 'नैकमपि वारमहममीभिर्गवेषितः' इति बुद्ध्या विपरिणतोऽपि लभ्यते, तेषामेवाभवतीत्यर्थः; 20 परं तेऽपि साधवस्तमन्तराऽन्तरा गत्वा 'नोदयन्ति' सङ्केतस्मारणापुरस्सरं शिक्षयन्ति, अथ खयं गन्तुं न प्रभवन्ति ततः "अप्पाहेंति" सन्देशं तस्य प्रेषयन्ति ॥ ४७२१ ॥ एवं खलु अच्छिन्ने, छिन्ने वेला तहेव दिवसेहिं । वेला पुण्णमपुण्णे, वाघाए होइ चउभंगो ॥ ४७२२॥ __एवं तावद् 'अच्छिन्ने' अनियते सङ्गारे विधिरुक्तः, यस्तु छिन्नः सङ्गारस्तत्र विधिरभिधी25 यते-छिन्नो नाम क्षेत्रतः कालतश्च प्रतिनियतः । क्षेत्रतो ग्राम-वनखण्डादौ प्रव्रज्यादानार्थं भवद्भिः समागन्तव्यम् , कालतो वेलया दिवसैमासैश्च प्रतिनियतैः । तत्र च "वेला पुण्णमपुण्णे" ति वेलया उपलक्षणत्वाद् दिवसैश्च पूर्णेऽपूर्णे वा सङ्गारकाले व्याघातो भवेत् , तत्र चेयं चतुर्भङ्गी-कालः पूर्णो निर्व्याघातं च प्राप्ताः, कालः पूर्णः परं व्याघातः सञ्जातः, कालोऽद्याप्यपूर्णः परं निर्व्याघातं तत्र प्राप्ताः, कालोऽप्यपूर्णो व्याघातोऽपि जात इति ४ । 30 अथवा अन्यथा चतुर्भङ्गी-संयतस्य व्याघातो न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य, द्वयोरपि व्याघातः, द्वयोरपि न व्याघातः ॥ ४७२२ ॥ तत्र संयतस्य व्याघाते विधिमाह मंदहिगा ते तहियं च पत्तो, जति मण्णते ते य सहा ण होति । १°डिः काप्युपस्थि° भा०॥ २ °स्तेषां प्रतिबन्धान श° भा० ॥ ३°रपि चाव्या भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444