________________
10
१२७० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ रिणाम्येत, अवसन्नविहारिषु वा प्रव्रजेत् , अन्यतीर्थको वा भवेत् ; अतो वर्षावासं मुक्त्वा 'इतरथा' पुष्टालम्बनं विना सङ्गारो न प्रतीच्छनीयो न वा कर्त्तव्यः ॥ ४७१८ ॥ किमर्थं पुनः सङ्गारमसौ करोति ? इत्याह
संखडि सण्णाया वा, खित्तं मोत्तव्ययं व मा होजा। ____एएहिँ कारणेहिं, संगार करेंतें चउगुरुगा ॥ ४७१९ ॥ सङ्कर्डिस्तत्र ग्रामे उपस्थितानां परिहत्तुं न शक्नोति, सज्ञातका वा तस्य तत्र भूयांसंस्तेषामाग्रहात् तदानीं न शक्नोति गन्तुम् , क्षेत्रं वा तदतीवस्निग्ध-मधुराहारादिलाभसम्पन्नं शैक्षस्य च तत्र सागारिकम् अतस्तद् मोक्तव्यम् मा भूत् , 'एतैः' एवमादिभिः कारणैः शैक्षस्य सङ्गारं यः करोति तस्य चतुर्गुरु ॥ ४७१९ ॥ अथ गृहस्थाः किमर्थ सङ्गारं कुर्वन्ति ! इत्याह
रिण वाहिं मोक्खेउ, कुडुंब वित्तिं वतिच्छिते गिम्हे ।
एमादिअणाउत्ते, करिति गिहिणो उ संगारं ॥ ४७२०॥ ऋणं वा व्याधि वा 'मोक्षयितुम्' अपनेतुम् , कुटुम्बस्य वा पश्वान्निर्वहणयोग्यां वृत्ति सम्पादयितुम् , यद्वा ग्रीष्मस्तदानीमतिक्रान्तो वर्षावास आयातः, एवमादिभिः कारणैः अना
युक्ते-अक्षणिकतायां गृहिणः सङ्गारं कुर्वन्ति ॥ ४७२०॥ 15 अथ द्वितीयपदेन सङ्गारे प्रतीप्यमाणे आभाव्यविधिमाह
अगविट्ठो मिति अहं, लब्भति असढेहि विप्परिणतो वि ।
चोयंतऽप्पाहेति व, ते वि य णं अंतरा गंतुं ॥४७२१॥ सनारे कृते यदि 'अशठैः' ग्लानादिकार्यव्यापृतैः स शैक्षो न गवेषितस्तदाऽसौ 'अगवेषितः' 'नैकमपि वारमहममीभिर्गवेषितः' इति बुद्ध्या विपरिणतोऽपि लभ्यते, तेषामेवाभवतीत्यर्थः; 20 परं तेऽपि साधवस्तमन्तराऽन्तरा गत्वा 'नोदयन्ति' सङ्केतस्मारणापुरस्सरं शिक्षयन्ति, अथ खयं गन्तुं न प्रभवन्ति ततः "अप्पाहेंति" सन्देशं तस्य प्रेषयन्ति ॥ ४७२१ ॥
एवं खलु अच्छिन्ने, छिन्ने वेला तहेव दिवसेहिं ।
वेला पुण्णमपुण्णे, वाघाए होइ चउभंगो ॥ ४७२२॥ __एवं तावद् 'अच्छिन्ने' अनियते सङ्गारे विधिरुक्तः, यस्तु छिन्नः सङ्गारस्तत्र विधिरभिधी25 यते-छिन्नो नाम क्षेत्रतः कालतश्च प्रतिनियतः । क्षेत्रतो ग्राम-वनखण्डादौ प्रव्रज्यादानार्थं
भवद्भिः समागन्तव्यम् , कालतो वेलया दिवसैमासैश्च प्रतिनियतैः । तत्र च "वेला पुण्णमपुण्णे" ति वेलया उपलक्षणत्वाद् दिवसैश्च पूर्णेऽपूर्णे वा सङ्गारकाले व्याघातो भवेत् , तत्र चेयं चतुर्भङ्गी-कालः पूर्णो निर्व्याघातं च प्राप्ताः, कालः पूर्णः परं व्याघातः सञ्जातः, कालोऽद्याप्यपूर्णः परं निर्व्याघातं तत्र प्राप्ताः, कालोऽप्यपूर्णो व्याघातोऽपि जात इति ४ । 30 अथवा अन्यथा चतुर्भङ्गी-संयतस्य व्याघातो न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य, द्वयोरपि व्याघातः, द्वयोरपि न व्याघातः ॥ ४७२२ ॥ तत्र संयतस्य व्याघाते विधिमाह
मंदहिगा ते तहियं च पत्तो, जति मण्णते ते य सहा ण होति । १°डिः काप्युपस्थि° भा०॥ २ °स्तेषां प्रतिबन्धान श° भा० ॥ ३°रपि चाव्या भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org